Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 415
________________ (२४) उद्विमता चात्र भवाम्बुराशेः सामान्यतोऽभिग्रहपालनं च। श्रीधर्मशास्रेषु समादरच श्रद्धा च बीजश्रवणे प्रमूता ॥ ८१॥ एवं च दृष्टाविह वर्तमानः कृपापरो दुःखिषु, निर्गुणेषु । अद्वेषकचोचितसम्प्रवृत्तियोंगप्रवीणैः कथयाम्बभूवे ॥ ८२ ॥ दुर्बोधघमें विपुलोऽम्बुवाहो दुर्वर्तनद्रौ निशितः कुठारः। ... सत्सङ्गतिर्या मुनिभियंगादि तत्प्राप्तिरत्र प्रगतेर्निदानम् ॥ ८३ ॥ अन्त्ये परावर्त इमां च दृष्टिं कल्याणरूपां लभते सुभागः। .. हेतुः परो भावमलाल्पताऽत्र घने मले सत्सु न सरवबुद्धिः ॥८॥ यथाप्रवृत्तौ करणेऽन्त्य ईदृग् आसत्तिमद्ग्रन्थिभिदः स्वरूपम् ।' अपूर्वतां तेन यथाप्रवृत्तेरासन्नभावेन वुधा अवोचन ॥ ८ ॥ चतुर्दशोक्तानि जिनागमे गुण-स्थानानि, तत्र प्रथमं निगद्यते । समागतस्य प्रथमामिमां दृशं शास्त्रे तु सामान्यत एवं वर्णितम् ॥८६॥ यमप्रधाना प्रथमा घृगुक्ता तारा द्वितीया नियमप्रधाना। शौचस्य सद्भावनया च तत्र घृणा स्वदेहेऽन्यशरोर्यसमः ॥८॥ सुसरवसिद्धिः सुमनम्कभाव एकाग्रभावो जय इन्द्रियाणाम । आत्मस्वरूपेक्षणयोग्यता च फलान्यमूनि प्रतिपादितानि ॥४८॥ युग्मम् । सन्तोषतोऽनुत्तमसौख्यलाभः स्वाध्यायती दर्शनमिष्टदेवे । *तपेन कायेन्द्रिययांश्च सिद्धिः प्रोक्ता समाधिः प्रणिधानतच ॥८९।। अस्यां च तारादशि गोमयाग्नि-कणोपमं दर्शनमूचिवांसः । नोद्विमभावोऽत्र हितप्रवृत्ती तत्वावबोधस्य पुनः समीहा ॥१०॥ * अकारान्तोऽप्यस्ति ।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440