Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
(१७) नवीन विज्ञानचमत्कृतानां न मोक्षशास्त्रेषु घृणा विधेया। चित्रप्रयोगा बहवो भवन्तु न युज्यतेऽध्यात्मपथस्तु हातुम् ॥१०॥ जडेऽप्यनन्ता सममानि शक्तिरेवं च सम्यग्विहितप्रयोगः । आश्चर्य हेतुर्घटना भवेञ्चेत् किं तर्हि युक्ता जडमोहलीला ? ॥ ११ ॥ सीमा न खल्वस्ति चमत्कृतीनां भूमण्डले चेत् कुशलः प्रयोक्ता। परं च ताभिर्नहि कर्मसृष्टिाहन्यते शुष्यति नापि मोक्षः ॥१२॥ अवश्यमाविष्कृतयो भवन्तु महोपयोगा हि जनस्य सन्ति । । स्मृतेबहिः स्याद् न तु माध्यबिन्दुरात्माभिमुख्यं खलु सारमन्ते॥१३।। इति सुबोधसुवामितमाशयं
कुरुत कामत चात्मसमुन्नतिम् । सति बलीयमि तत्र मनोरथे
प्रयतनं मुलभीभविता स्वतः ॥ १४ ॥ तदेवं महभिनं गदितमिदमध्यात्मविषये ___मया स्वल्पज्ञमाऽपि परिदृढसंस्कार विधये। समालोकिप्यन्ले किल सहृदयाः सादरदृशा
प्रबुद्धेऽस्मात् कम्मिश्चन मम कृतार्थत्वमधिकम् ॥

Page Navigation
1 ... 436 437 438 439 440