Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text ________________ 470 2-3-2 (510) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन उत्तरक्षत्रियकुण्डपुरसंनिवेशे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य त्रिशलायाः क्षत्रियाण्याः वाशिष्ठगोत्रायाः अशुभानां पुद्गलानां अपहारं कृत्वा शुभानां पुद्गलानां प्रक्षेपं कृत्वा कुक्षौ गर्भ: समाहरति, यः अपि च तस्याः त्रिशलाया: क्षत्रियाण्याः कुक्षौ गर्भः, तं अपि च दक्षिण ब्राह्मणकुण्डपुरसंनिवेशे ऋषभदत्तस्य कोडालगोत्रस्य देवानन्दायाः ब्राह्मण्या: जालन्धरगोत्रायाः कुक्षौ गर्भ समाहरति (मुञ्चति)। श्रमणः भगवान् महावीरः त्रिज्ञानोपगतः च अपि अभवत्, समाहरिष्ये इति जानाति, समाह्रियमाणः न जानाति, समाहृतः अस्मि इति च जानाति श्रमणायुष्मान् / तस्मिन् काले तस्मिन् समये त्रिशलायाः क्षत्रियाण्याः अथ अन्यदा कदाचित् नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमरात्रिंदिवसेषु व्यतिक्रान्तेषु सत्सु, यः सः ग्रीष्मस्य प्रथमः मासः, द्वितीय: पक्षः, चैत्रशुद्धः, तस्य चैत्रशुक्लस्य त्रयोदशी-पक्षेण हस्तोत्तराभिः नक्षत्रेण योगमुपागतेन श्रमणं भगवन्तं महावीरं आरोग्या (त्रिशला क्षत्रियाणी) अरोगं प्रसूता। यस्यां रात्रौ त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं अरोगा (त्रिशला) अरोगं पुत्रं प्रसूता, तस्यां रात्रौ भवनपतिवानव्यन्तरज्योतिष्क-(वैमानिक) विमानवासिदेवैः देवीभिश्च अवपतद्भिः देवसन्निपात: देवकहकहकः उत्पिजलकभूतश्च अपि अभवत् / यस्यां रात्रौ (रजन्यां) त्रिथला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता, तस्यां रजन्यां बहवः देवाः च देव्यश्च एकं महत् अमृतवर्षं च गन्धवर्षं च, चूर्णवर्षं च, पुष्पवर्ष च, हिरण्यवर्षं च रत्नवर्षं च अवर्षयन् / यस्यां रजन्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रजन्यां भवनपति-वानव्यन्तर-ज्योतिष्क-विमानवासिनः देवाश्च देव्यश्च श्रमणस्य भगवतः महावीरस्य सूतिकर्माणि तीर्थकराभिषेकं च अकार्षुः / यतः प्रभृति भगवान् महावीर: त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भ-स्वरूपेण आगतः, ततः प्रभृति तत् कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शंखशिला-प्रवालेन अतीव अतीव परिवर्धते। ततः श्रमणस्य भगवतः महावीरस्य अम्बा-पितरौ एतदर्थं ज्ञात्वा निवृत्तदशाहे व्युत्क्रान्ते शुचीभूते सति विपुलं अशन-पान-खादिम-स्वादिमं उपस्कारयन्ति, उपस्कार्य मित्र ज्ञाति स्वजन सम्बन्धिवर्ग उपनिमन्त्रयन्ति, मित्रज्ञातिस्वजनसम्बन्धिवर्ग उपनिमन्य बहून् श्रमण-ब्राह्मण-कृपण-वनीपकान् भिक्षोण्डुक-पण्डरकादीन् विच्छर्दयन्ति विगोपयन्ति विश्राणयन्ति, दातृषु दानं परिभाजयन्ति, विच्छर्य वियोप्य विश्राण्य दातृषु परिभाज्य मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयन्ति, मित्रज्ञाति० वर्ग
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608