Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text ________________ 500 2-3-27 (535) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन प्रतिविसर्जयति, प्रतिविसर्म्य इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, तद्यथा-द्वादश वर्षाणि व्युत्सृष्टकाय: त्यक्तदेहः ये केचित् उपसर्गाः समुत्पद्यन्ते, तदयथा-दिव्याः वा मानुष्याः वा तैरिश्चिका: वा, तान् सर्वान् उपसर्गान् समुत्पन्नान् सतः सम्यग् सहिष्ये क्षमिष्ये अध्यास्ये ततश्च श्रमणः भगवान् महावीरः इमं एतद्रूपं अभिग्रहं अभिगृह्य व्युत्सृष्टत्यक्तदेहः दिवसे मुहूर्तशेषे कुमारग्रामं समनुप्राप्तः / ततश्च श्रमणः भगवान् महावीरः व्युत्सृष्टत्यक्तदेहः अनुत्तरेण आलयेन अनुत्तरेण विहारेण एवं संयमेन प्रग्रहेण संवरेण तपसा ब्रह्मचर्यवासेन क्षान्त्या मुक्त्या समित्या गुप्त्या तुष्ट्या स्थानेन क्रमेण सुचरितफलनिर्वाणमुक्तिमार्गेण आत्मानं भावयन् विहरति / एवं वा विहरत: ये केचित् उपसर्गाः समुत्पद्यन्ते, दिव्याः वा मानुष्याः वा तैरिश्चिकाः वा, तान् सर्वान् उपसर्गान् समुत्पन्नान् सत: अनाकुल: अव्यथित: अदीनमना: त्रिविधमनो वचनकायगुप्तः सम्यक सहते क्षमते तितिक्षते अध्यास्ते। ततश्च श्रमणस्य भगवतो महावीरस्य एतेन विहारेण विहरतः द्वादश वर्षाः व्यतिक्रान्ता: अयोदशमस्य च वर्षस्य पर्याये वर्तमानस्य यः असौ ग्रीष्मस्य द्वितीय: मास: चतुर्थः पक्षः वैशाखशुक्लः, तस्य च वैशाखशुक्लस्य दशमी-पक्षे सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तराभिः नक्षत्रेण योगोपगतेन प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्यां जृम्भिकग्रामस्य नगरस्य बहिस्तात् नद्याः ऋजुवालुकाया: उत्तरकुले श्यामकस्य गृहपतेः काष्ठकरणे ऊध्वं जानु-अधः शिरस: ध्यानकोष्ठोपगतस्य व्यवृत्तस्य चैत्यस्य उत्तरपूर्वे दिग्भागे शालवृक्षस्य अदूरपार्धे उत्कुटुकस्य गोदोहिकया आतापनया आतापयत: षष्ठेन भक्तेन अपानकेन शुक्लध्यानान्तरिकायां वर्तमानस्य निर्वाणे कृत्स्ने प्रतिपूर्णे अव्याहते निरावरणे अनन्ते अनुत्तरे केवलवरज्ञानदर्शने समुत्पन्ने। स: भगवान् अर्हन् जिन: केवली सर्वज्ञः सर्वभावदर्शी सदेवमनुजासुरस्य लोकस्य पर्यायान् जानाति, तद्यथा-आगतिं गतिं स्थितिं च्यवनं उपपातं भुक्तं पीतं कृतं प्रतिसेवितं आवि:कर्म रहःकर्म लपितं कथितं मनोमानसिकं सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यन् च एवं विहरति / यस्मिन् दिवसे श्रमणस्य भगवतो महावीरस्य निर्वाणे कृत्स्ने यावत् केवलवरज्ञानदर्शने समुत्पन्ने, तस्मिन् दिवसे भवनपतिवानव्यन्तर-ज्योतिष्क-विमानवासिदेवैः च देवीभिश्च उत्पतद्भिः यावत् आकाश: उत्पिञ्जलकभूतश्च अपि अभवत्। ततश्च श्रमण: भगवान् महावीरः उत्पन्नवरज्ञानदर्शनधरः आत्मानं च लोकं च . अभिसमीक्ष्य पूर्वं देवानां धर्ममाख्याति, ततः पश्चात् मनुष्याणाम् / ततश्च श्रमणः भगवान् महावीरः उत्पन्नवरज्ञानदानधरः गौतमादीनां श्रमणानां
Loading... Page Navigation 1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608