Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text ________________ 530 2-3-32 (540) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन शान्तिकेवलिप्रज्ञप्तात् धर्मात् भ्रश्येत् / न शक्याः न श्रोतुं शब्दाः श्रोत्रविषयमागताः। रागद्वेषाः तु ये तत्र, तान् भिक्षुः परिवर्जयेत् // श्रोत्रतः जीव: मनोज्ञामनोज्ञान् शब्दान् शृणोति इति प्रथमा भावना। अथाऽपरा द्वितीया भावना-चक्षुषः जीव: मनोज्ञामनोज्ञानि रूपाणि पश्यति, मनोज्ञामनोज्ञेषु रूपेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदा: यावत् अश्येत् / न शक्यं रुपमद्रष्टुं चक्षुर्विषयमागतम् / रागद्वेषाः तु ये तत्र, तान् भिक्षुः परिवर्जयेत्॥ चक्षुषः जीव: मनोज्ञामनोज्ञानि सपाणि पश्यति इति द्वितीया भावना / अथाऽपरा तृतीया भावना-घ्राणतः जीव: मनोज्ञामनोज्ञान् गन्धान् आजिघ्रति, मनोज्ञामनोज्ञेषु गन्धेषु न सज्येत न रज्येत यावत् न विनिघातमापद्येत, केवली ब्रूयात्मनोज्ञामनोज्ञेषु गन्धेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदाः यावत् भ्रश्येत्। न शक्यं गन्धमाघ्रातुं घ्राणविषयमागतम् / रागद्वेषा: तु ये तत्र, तान् भिक्षुः परिवर्जयेत् / / घ्राणत: जीवः मनोज्ञामनोज्ञान् गन्धान् आजिघ्रति इति तृतीया भावना। अथाऽपरा चतुर्थी भावना-जिह्वातः जीव: मनोज्ञामनोज्ञान् रसान् आस्वादयति, मनोज्ञामनोज्ञेषु रसेषु न सज्येत यावत् न विनिघातमापद्येत, केवली ब्रूयात्मनोज्ञामनोज्ञेषु रसेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदा: यावत् अश्येत् / न थक्यं रसमारवादयितुं जिह्वाविषयमागतम् / रागद्वेषाः तु ये तत्. तान् भिक्षुः परिवर्जयेत् // जिह्वातः जीव: मनोज्ञामनोज्ञान् रसान् आस्वादयति इति चतुर्थी भावना। अथाऽपरा पचमी भावना-स्पर्शत: जीव: मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसेवते, मनोज्ञामनोज्ञेषु स्पर्शेषु न सज्येत यावत् न विनिघातमापयेत, केवली ब्रूयात्- निर्ग्रन्थ: मनोज्ञामनोज्ञेषु स्पर्थेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदाः शान्तिविभङ्गाः शान्तिकेवलिप्रज्ञप्तात् धर्मात् प्रश्येत् / न शक्यः स्पर्थ: अवेदितुं स्पर्थविषयमागतः / रागद्वेषाः तु ये तत्र तान् भितः परिवर्जयेत् // स्पर्शत: जीव: मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसंवेदयति, इति पञ्चमी भावना / एतावता पञ्चमे महाव्रते सम्यग् अवस्थितः आज्ञया आराधितं च अपि भवति / पञ्चमं भदन्त ! महाव्रतम् / इति एतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्न: अनगारः यथाश्रुतं यथाकल्पं यथामार्ग सम्यक् कायेन स्पृष्ट्वा पालयित्वा तीर्वा कीर्तयित्वा आज्ञया आराधिताः च अपि भवन्ति / / 540 // III सूत्रार्थ : हे भगवन् ! पांचवें महाव्रत के विषय में सर्व प्रकार के परिग्रह का परित्याग करता
Loading... Page Navigation 1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608