Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 188
________________ १०६ शिशुपालवधम् मानिनः शेर्पाभिमानिनो ह्रिये । लज्जाकरमित्यर्थः । किन्तु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः, विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुस्तुदो राहुः । 'विश्व - रुषोस्तुद:' ( ३।२।१५ ) इति खश्प्रत्यये मुमागमः । तस्येवोत्सवाय । अत एव बलिना बलवता यातव्यः, बलिनश्च वयमिति भावः ॥ ६१ ॥ अन्वय - ( हे कृष्ण ! ) परः आपदि गम्यः नीति: ( इति ) यत् तत् मानिनः ह्रिये । पूर्णः सः तस्य, विधुः विधुन्तुदस्य इव उत्सवाय ( भवतीति शेषः ) ।। ६१ ॥ हिन्दी अनुवाद - ( वस्तुतः ) विपत्तिग्रस्त शत्रुपर आक्रमण करना शौर्याभिमानी वीर पुरुष के लिये लज्जा जनक है । ( क्योंकि ) राहु भी पूर्ण चन्द्रमा को ही ग्रसता है ॥ ६१ ॥ ( अतः शक्तिशाली शत्रुपर आक्रमण करना चाहिये ) विशेष—नीतिज्ञ कामन्दक ने कहा है कि शक्तिसम्पन्न शत्रुपर आक्रमण करना चाहिए— "यदा क्षमस्तु प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमित्रम् तदाऽभियायादहितानि कुवन्परस्य वा कर्षणपीडनानि" (का० नी० सा० १५। ३ ) ।। ६१ ।। प्रसङ्ग - अब पूर्वोदाहृत मनु आदि नीतिज्ञों के उदाहरणों में संभवतः विरोध प्रतीत होगा, इस शंका को दूर करने के लिए कहते हैं तह पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्क्याहअन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥ अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियन्त्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षण वैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्ष-त्वाभ्यां मिथो विरोधान्नकशास्त्रत्वं सम्भवतीत्यर्थः । अत्र दृष्टान्तमाह – तेजस्ति मिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् तयोः सहाऽवस्थानविरोधादिति भावः । तस्मादुभयोरुदिताऽनुदितहोमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ ६२ ॥ अन्वयः -- उच्छृङ्खलं सत्त्वम् (तद् ) अन्यत् शास्त्रनियन्त्रितं ( सत्त्वम् ) अन्यत् । हि तेजस्तिमिरयोः सामानाधिकरण्यं कुतः ? ।। ६२ ।। " हिन्दी अनुवाद - उच्छृङ्खल ( अनर्गल, नीति के विरुद्ध बलपूर्वक शत्रुपर चढ़ाई कर उसे पीडित करना ) वल दूसरा है अर्थात् और बात है, और शास्त्र नियन्त्रित बल दूसरा है । ( नीतिशास्त्र के अनुसार - जब शत्रु विपत्ति में रहे उस

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231