Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 200
________________ ११८ शिशुपालवधम् अथ प्रज्ञानवानपि न प्रमाद्येदित्याह उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः । हन्ति नोपशयस्थोऽपि शयालुर्मंगयुर्मुगान् ॥ ८॥ उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्य साधयतोऽपीत्यर्थः। किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधानता' इत्यमरः। अर्थाः प्रयोजनानि नश्यन्ति । तथा हि-शयालुनिद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच । मृगान् यातीति मृगयुधिः । 'मृगय्वादयश्च इत्योणादिकः कुप्रत्ययान्तो निपातः। 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपथयो मृगमार्गस्थायिनो व्याधस्यात्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' ( ३।३।५६ ) इत्यच्प्रत्ययः । तत्र तिष्ठतीत्युपशयस्थोऽपि मृगान् न हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८० ॥ अन्वयः-उपायम् आस्थितस्य अपि प्रमाद्यतः (पुंसः) अर्थाः नश्यन्ति । (यथा) शयालुः मृगयुः उपशयस्थः अपि मृगान् न हन्ति ।। ८० । हिन्दी अनुवाद-युक्ति के द्वारा कार्य सम्पन्न करनेवाला चतुर पुरुष भी उपाय रहने पर भी यदि प्रमाद करता है तो उसका कार्य नष्ट हो जाता है । जैसे सोनेवाला बहेलिया उपशय (मृगों के मार्ग में छिपकर बैठने का स्थान) में रहकर भी मृगों को नहीं मार सकता । प्रस्तुत श्लोक में अर्थान्तन्यासालङ्कार है । ८०॥ प्रसङ्ग-प्रस्तुत श्लोक में उद्धवजी पुनः 'उत्साह-शक्ति की आवश्यकता पर पल देते हैंएवं प्रज्ञाया आवश्यकत्वमुक्तम्, तथोत्साहस्याप्याह उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१॥ उदेतुमिति ॥ जेतुमिच्छजिगीषुरेक एव द्वादशस्वपि राजसु मध्ये द्वादशस्वादित्येषु दिनकृद् यो दिनकरणे व्याप्रियमाण आदित्यः स इव ईहामुत्साहामस्यजन्प्रयुञान एव । न तु निरुद्योग इति भावः । उधेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः । प्रतिमासमादित्यभेदाद् द्वादशत्वं, तच्चकस्य व द्वादशात्मकत्वम् । 'द्वादशात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजानस्तु 'अरिमित्रममित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231