________________
१०६
शिशुपालवधम्
मानिनः शेर्पाभिमानिनो ह्रिये । लज्जाकरमित्यर्थः । किन्तु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः, विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुस्तुदो राहुः । 'विश्व - रुषोस्तुद:' ( ३।२।१५ ) इति खश्प्रत्यये मुमागमः । तस्येवोत्सवाय । अत एव बलिना बलवता यातव्यः, बलिनश्च वयमिति भावः ॥ ६१ ॥
अन्वय - ( हे कृष्ण ! ) परः आपदि गम्यः नीति: ( इति ) यत् तत् मानिनः ह्रिये । पूर्णः सः तस्य, विधुः विधुन्तुदस्य इव उत्सवाय ( भवतीति शेषः ) ।। ६१ ॥
हिन्दी अनुवाद - ( वस्तुतः ) विपत्तिग्रस्त शत्रुपर आक्रमण करना शौर्याभिमानी वीर पुरुष के लिये लज्जा जनक है । ( क्योंकि ) राहु भी पूर्ण चन्द्रमा को ही ग्रसता है ॥ ६१ ॥
( अतः शक्तिशाली शत्रुपर आक्रमण करना चाहिये ) विशेष—नीतिज्ञ कामन्दक ने कहा है कि शक्तिसम्पन्न शत्रुपर आक्रमण करना
चाहिए—
"यदा क्षमस्तु प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमित्रम् तदाऽभियायादहितानि कुवन्परस्य वा कर्षणपीडनानि"
(का० नी० सा० १५। ३ ) ।। ६१ ।। प्रसङ्ग - अब पूर्वोदाहृत मनु आदि नीतिज्ञों के उदाहरणों में संभवतः विरोध प्रतीत होगा, इस शंका को दूर करने के लिए कहते हैं
तह पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्क्याहअन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥
अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियन्त्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षण वैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्ष-त्वाभ्यां मिथो विरोधान्नकशास्त्रत्वं सम्भवतीत्यर्थः । अत्र दृष्टान्तमाह – तेजस्ति मिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् तयोः सहाऽवस्थानविरोधादिति भावः । तस्मादुभयोरुदिताऽनुदितहोमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ ६२ ॥
अन्वयः -- उच्छृङ्खलं सत्त्वम् (तद् ) अन्यत् शास्त्रनियन्त्रितं ( सत्त्वम् ) अन्यत् । हि तेजस्तिमिरयोः सामानाधिकरण्यं कुतः ? ।। ६२ ।।
"
हिन्दी अनुवाद - उच्छृङ्खल ( अनर्गल, नीति के विरुद्ध बलपूर्वक शत्रुपर चढ़ाई कर उसे पीडित करना ) वल दूसरा है अर्थात् और बात है, और शास्त्र नियन्त्रित बल दूसरा है । ( नीतिशास्त्र के अनुसार - जब शत्रु विपत्ति में रहे उस