Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
सड - जीयकप्पो
| ...१३...] व्याख्या-ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्ता उपयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्त्युपाध्यायाः । उक्तं च - 'सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएइ उवज्झाओ।।।
(सं०प्र० ६९२) अथ कस्मात् सूत्रमुपाध्यायो वाचयति ? उच्यते-अनेकगुणसम्भवात् । तानेवाह'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयई अपडिबंधो । पाडिच्छा मोहजओ सुत्तं वाएइ उवज्झाओ।।।
(व्य०सू० ९४७) व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथा अन्येभ्यः सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्त्तनं भवति । तथा 'पाडिच्छे। त्ति । येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृहणते ते प्रतीच्छका उच्यन्ते । ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविस्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् ।।। उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिनः स्वरूपमाह'तवनियमविणयगुणनिहिपवत्तया नाणदंसणचरित्ते । संगहुवग्गहकुसला पवत्ति एआरिसा हुंति। ।।
(व्य०सू० ९४८) व्याख्या-तपो द्वादशप्रभेदम्, नियमा विचित्रा द्रव्याद्यभिग्रहाः, विनयो ज्ञानादिविनयः। ततश्च तपोनियमविनयानां गुणानां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्शनचारित्रेषूद्युक्ताः सततोपयोगवन्त इति वाक्यशेषः । तथा सङ्ग्रहः शिष्याणां सङ्ग्रहणम्। उपग्रहः तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशलाः एतादृशा एवंरूपाः प्रवर्त्तिनो भवन्ति । यथोचितं प्रशस्तयोगेषु सीदतः साधून प्रवर्तयन्तीत्येवंशीलाः प्रवर्त्तिन इति व्युत्पत्तेः । तथा चाह'संजमतवनियमेसुं जो जुग्गो तत्थ तं पवत्तेति । असहू अ नियत्तंती गणतत्तील्लो पवत्तिओ।।।
(व्य०सू० ९४९) व्याख्या-तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्तयन्ति । असहाँश्चासमर्थांश्च निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः ।। उक्तं प्रवर्तिस्वरूपम् । सम्प्रति स्थविरस्वरूपमाह - 'संविग्गो मद्दविओ पियधम्मो नाणदंसणचरित्ते । जे अढे परिहायइ ते सारंतो हवइ थेरो' ।।
( व्य०सू० ९५०)

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122