Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 46
________________ - जीयकप्पो ― सड - ...३५... 'अस्स आयरिअस्स अणवट्टप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थ उससीएण' मित्यादि ‘वोसिरामी’' ति यावत् । चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विंशतिस्तवमुच्चार्याऽऽचार्यो वक्त 'एस तवं पडिवज्जइ न किंचि आलवइ मा य आलवहा । अत्तट्ठचिंतगस्स उ वाघाओ भे न कायव्वो' ' ।। ( व्य०सू० ५४९, नि० भा० ६५९५ ) एष युष्मान्नालापयिष्यति, युष्माभिरप्येष नालाप्यः । सूत्रार्थी शरीरवार्तां वा न प्रक्ष्यति, युष्माभिरपि न प्रष्टव्यः । खेलमल्लकमात्रादिकं वा नाऽस्य ग्राह्यमर्पणीयं वा । उपकरणं परस्परं न प्रतिलेख्यम् । भक्तपानं परस्परं न ग्राह्यम् । सङ्घाटकेऽस्य न मिलनीयम् । अनेन सहैकमण्डल्यां न भोक्तव्यम् । किमप्यनेन सार्धं न कार्यं कार्यमिति । अधुना गाथाक्षरार्थ : - प्रतिपन्नानवस्थाप्यतपाः शैक्षादीनपि वन्दते, न चासौ वन्द्यते । परिहारतपश्च परिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे षष्ठाष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि । पारणके च निर्लेपभक्तमित्येवंस्वरूपं सुदुश्चरं तपश्चरति । संवासो सह वासो गच्छेनास्यैकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्वे शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नाऽऽलपनादीनि शेषाणीत्येष सङ्क्षेपतोऽनवस्थाप्यविधिः । उक्तमनवस्थाप्यार्हम्, साम्प्रतं पाराञ्चिकमाह'तित्थयर - पवयण - सुअं आयरिअं गणहरं महड्ढीयं । आसायंतो बहुसो अभिनिवेसेण पारंची' ।। (इजीको २९०, गु०वि० ३/१२) व्याख्या - तीर्थकरादीनाशातयन् हीलयन्नाशातनापाराञ्चिको भवति । प्रतिसेवनापारञ्चिकमाह 'जो उसलिंगे दुट्टो कसायविसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पगासो उ' ।। ( जइजीयकप्पो २९१ ) इह प्रतिसेवनापाराञ्चिकस्त्रिधा - दुष्टो मूढोऽन्योऽन्यं कुर्वाणश्च । तत्र दुष्टो द्विधा - कषायतो विषयतश्च । पुनरेकैको द्विधा - स्वपक्षे - श्रमण श्रमणीरूपे परपक्षे – गृहस्थेऽन्यतीर्थे वा । अत्र च स्वपक्षपरपक्षाभ्यां कषायविषयदुष्टयोश्चत्वारश्चत्वारो भङ्गाः पूर्ववदवसेयाः । स्वपक्षकषायविषयदुष्टयोरुदाहरणानि शास्त्रान्तरतोऽवसेयानि । परपक्षयोस्त्वाह 'रायवहगो अ' ' त्ति । परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् । परपक्षविषयदुष्टस्तु बहुशः पौनःपुन्येन प्रकाशो लोकतः विदितः राजाग्रमहिषी प्रतिसेवकः, अग्रमहिषीग्रहणादन्यापि राज्ञो या काचिदिष्टा तत्सेवकश्च, चशब्दाद् युवराजसेनापत्याद्यग्रमहिषीसेवकश्च द्वावप्येतौ लिङ्गपाराञ्चिकौ । उक्तो दुष्टपाराञ्चिकः । मूढः - प्रमत्तः, स तु पञ्चधा - कषाय - विकथाविषय - मद्ये - न्द्रिय - निद्राख्यैः प्रमादभेदैर्विस्तरेणाऽऽख्येयः । अन्योऽन्यं - पुरुषः पुरुषान्तरेण मैथुनाऽऽ सेवायां प्रसक्तोऽन्योऽन्यं कुर्वाणः । एवं प्रकारः पाराञ्चिकः क्रियत इत्यर्थः।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122