Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 40
________________ सड-जीयकप्पो ...२९... आधारे - प्रतिसेवावति पुरुषे आधेयोपचाराच्चैषापि दशधा प्रतिसेवा भवतीति गाथार्थः । ।४२।। अथ प्रतिसेवनापदेषु प्रभूतेष्वेकमप्यनालोचितं महतेऽनर्थाय भवतीति । तथा च श्रीभगवद्वचः— पायच्छित्तस्स ठाणाइं संखाइयाई गोयमा ! । अणालोइअं तु इक्कंपि ससल्लं मरणं मरइ ।। ४३ ।। (आलोचनाग्रहण विधि प्रकरणम् ४२ ) व्याख्या–प्रायश्चित्तमतिचारविशुद्ध्यर्थं गुरुदत्तं तपः, तस्य स्थानानि अतिचारा येषु प्रायश्चित्तं दीयत इत्यर्थः । सङ्ख्यातीतानि सन्तीति भगवान् वीरः श्रीगौतमं प्रति प्राहेतिसम्बन्धः । 'अणालोइयं तु इक्कंपि' ' त्ति । इहाऽग्रतश्च विभक्तिव्यत्ययः प्राकृतत्वात् । तुशब्दः पुनरर्थे । ततस्तु - पुनरनालोचितेनैकेनापि प्रायश्चित्तस्थानेन सशल्येन मरणेन म्रियते सशल्य एव म्रियते इत्यर्थः ।। ४३ ।। अतः सम्यगालोच्य यत् कार्यं तदाह - ता तस्स पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह आयरियव्वं अणवत्थपसंग भीएणं ।। ४४ ।। ( ओ०नि० ८०३ ) व्याख्या– ‘त’'त्ति, यत एवं ततस्तस्यापराधस्य प्रायश्चित्तं तपः 'जं' ' त्ति । यत् यावन्मात्रं ‘मग्गविऊ' ' त्ति, मार्गविदः । तत्र मार्गो द्विधा द्रव्यतो भावतश्च । द्रव्यतो नगरग्रामादिपन्थाः भावतस्तु मोक्षमार्गः । स च द्विधा - श्रुतरूपश्चारित्ररूपश्च । अत्र तु भावमार्गेणाधिकारस्तस्य विदः - श्रुतवन्तः क्रियावन्तश्चेत्यर्थः । ‘गुरू’' त्ति, गुरव उपदिशन्ति कथयन्ति तत् प्रायश्चित्तं तथा गुरुदत्तप्रकारेणाचरितव्यं कर्त्तव्यं साध्वादिनाऽऽलोचकेनेति गम्यते, न तु प्रमादावहीलने कार्ये इत्यर्थः । कीदृशेन ? इत्याह- ‘अनवस्थाप्रसङ्गभीतेन'' तं दृष्ट्वाऽन्योऽपि तथा करोतीत्यनवस्थाप्रसङ्गः । यद्वा— अवस्थानमवस्था न अवस्था अनवस्था अवस्थानाभाव इति यावत् । अयमर्थः - प्रथमं परिणामस्य तथाविधदारुणत्वाभावेनालोचनार्हमपराधमासेव्य पश्चाल्लज्जादिना गुरोः पुरतोऽनालोचकत्वेन परिणामदारुणत्ववृद्ध्या प्रतिक्रमणाद्यं प्राप्नोति प्रायश्चित्तं तावद्वाच्यं यावत् पाराञ्चिकमपि प्राप्नोति । एवं प्रायश्चित्तेष्वनवस्थितिरुपेति तस्याः प्रसङ्ग इति गाथार्थ: ।। ४४ । । लघुप्रायश्चित्तशोध्यं स्थानं भावविशेषाद् गुरुप्रायश्चित्तशोध्यं स्यात्तथा गुरुप्रायश्चित्त शोध्यं भावविशेषाल्लघुप्रायश्चित्तशोध्यं भवतीति भावस्यैव प्रायश्चित्तापत्त्यविकलहेतुत्वज्ञापनार्थं प्रायश्चित्तापत्तिवैचित्र्यमाह - — ,

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122