Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 27
________________ ...१६... ड्ड - जयकप्पो रूपग्रहणम् ।४। संहनन–धृतियुक्तो व्याख्यानादिषु न खेदमेति । ५ - ६ । अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति ।७। अविकत्थनो हितमितभाषी । ८ । अमायी सर्वत्र विश्वस्यः ।९। स्थिरपरि— पाटिः स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाऽसम्भवात् । १० । ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः ।११। जितपर्षद् राजादिसदसि न क्षोभमुपयाति । १२ । जितनिद्रश्चाऽयमप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । १३ । मध्यस्थः शिष्येषु समचित्तो भवति । १४ । देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति ।१५-१६-१७ । आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति ।१८। नानादेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः व्याख्यानं सुखमवभोत्स्यन्ते ।१९। ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । २० - २१-२२-२३-२४ । सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावत् ज्ञापयिष्यति । २५ । हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे । २६–२७ - २८ - २९ । ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति । ३० । स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । ३१ - ३२ । गम्भीरः खेदसहः । ३३। दीप्तिमान् पराऽधृष्यः । ३४ । शिवहेतुत्वात् शिवस्तदधिष्ठितदेशे मार्याद्युपशमात् । ३५ । सौम्यः सर्वजनमनोरमणीयः । ३६ । गुणशतकलितः प्रश्रयादिगुणोपेतः एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवतीति गाथाचतुष्टयार्थः । यद्वा संविंग्गो मज्झत्थो संतो मउओ रिऊ सुसंतुट्टो गीयत्थो कडजोगी भावन्नू लद्धिसंपन्नो ।।१।। देसें आदेओ मइमं वित्राणिओ कवी बाई । मत्ती ओसी उबारी धारणा लिओ । । २ । । बहुर्दिट्ठो नयनिउणो पियवओ सुरसरो तवे निरओ । सुसरीरो सुप्पइभो चाई आनंदओ दक्खो ।।३।। १० । १३ १७ २९ ३० ३३ ३४ ३५ गंभीरो अणुवत्ती पडिवन्नपालओ थिरो धीरो । उचियन्नू सूरीणं छत्तीसगुणा इमे हुंति । । ४ । । एतासां व्याख्या शास्त्रान्तरतो ज्ञेया । यद्वा ― ― 'अट्ठविहा गणिसंपय, चउग्गुणा नवरि हुति बत्तीसं । विणओ य चउब्भेओ, छत्तीस गुणा इमे गुरुणो । ( प्रव० सारो ० ५४० ) इत्यादिनानाप्रकारैरुक्ता अनेकधा सूरीणां षट्त्रिंशद् गुणा भवन्तीत्यलं विस्तरेण ।। १६ ।। अथ केनेति पञ्चमद्वाराभिधित्सयालोचकस्य दश गुणानाह - जाइकुलविणयउवसम - इंदिअजयनाणदंसणसमग्गा । अणुत्तावि अमाई चरणजुयालोअगा भणिआ ।।१७।। ( आलोचनाग्रहणविधिप्रक० २२, पुष्पमा० ( उप०) ३६६ )

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122