Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 89
________________ सड्डू - जीयकप्पो ... ७८... नपुंसकस्य कल्यम् । तीव्राभिलाषे तीव्रानुरागात् क्लिष्टाध्यवसायस्य तु पञ्चकल्यम्, चशब्दात् पुंस्त्रियोरपि हस्तभङ्गयां-हस्तकर्मादिकरणे चतुर्लघु । उभयोरपि गाढाऽऽकाङ्क्षायां सरागभाषायां च गुरोरालोचनं पुनरकरणेन च मिथ्यादुष्कृतदानमिति । स्वप्ने नियमभङ्गे नमस्काराधिकचतुर्विंशतिस्तवचतुष्ककायोत्सर्गः कार्य इति । 'समयं चउत्थ' मिति वचनादिति गाथार्थः । । ८६ ।। अथ पञ्चमाणुव्रतविषयं प्रायश्चित्तविधिमाह - - गुरु - लहुग - गुरुग तिविहे परिग्गहे उत्तमे व पणकल्लं । एगे असीअ लक्खं उविच्च भंगे इमं अन्ने । । ८७ ।। व्याख्या-द्रव्यादिविषये परिग्रहे जघन्यमध्यमोत्कृष्टभेदात्त्रिविधेऽपि यथाक्रमं गुरुचतुर्लघुचतुर्गुरुकाः प्रायश्चित्तं भवति । यदाह— 'मोसाइसु मेहुणवज्जिएसु' ' इत्यादि । इह च पाठान्तरम् 'लहु-गुरु-चउलहु तिविहे परिग्गहे’' इति । तत्रेत्थं व्याख्या - त्रिविधेऽपि जघन्यमध्यमोत्कृष्टरूपे द्रव्यादिविषये परिग्रहे क्रमेण लघुमास - गुरुमास - चतुर्लघुकाः प्रायश्चित्तं भवति । उत्तमपरिग्रहनियमभङ्गविषये आदेशान्तरद्वयमाह‘उत्तमे वे’' त्यादि । वाशब्द आदेशान्तरसूचनार्थः । तत उत्तमे परिग्रहे आदेशेन पञ्चकल्यं प्रायश्चित्तं भवति । 'गे' इत्यादि । एके पुनराचार्या उत्कृष्टपरिग्रहनियमभङ्गे अशीतिसहस्राधिकं स्वाध्यायलक्षमाहुः । ‘उविच्च भङ्गे” इत्यादि । अन्ये पुनराचार्या इदमशीतिसहस्राधिकस्वाध्यायलक्षदानरूपं प्रायश्चित्तमुपेत्य - आकुट्ट्यादिना परिग्रहव्रत भङ्गे प्राहुः । अत्रापि दर्पेण परिग्रहव्रतभङ्गे पञ्चकल्याणं प्रायश्चित्तम् । 'अहवा मोसादत्ते ' ' इत्यादि वचनादिति गाथार्थ: ।। ८७ ।। अथ गुणव्रतत्रयविषयं प्रायश्चित्तविधिमाह - दिसिवय अणत्थभंगे चउगुरु निक्कारणं च निसिभत्ते । पक्खाईए पगाढमायामयाईसु ।।८८।। को व्याख्या-1 - दिग्वतविषयेषु पञ्चस्वप्यतिचारेषु तथा अपध्यान - प्रमादाचरिता - ऽधिकरणप्रदानपापोपदेशरू— पचतुर्विधानर्थदण्डविरमणव्रतभङ्गे च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवति । तथा भोगोपभोगगुणव्रते निष्कारणं रोगधरणादिकारणं विना रात्रिभोजने चतुर्गुरु । एके तु कारणे रात्रिभोजने चतुर्गुरून्निष्कारणे षड्गुरूंश्च प्रायश्चित्तं प्राहुः । अथानर्थदण्डविरमणव्रतविषये किञ्चिद्विशेषतः प्रायश्चित्तविधि 'कोहे' इत्यादि । क्रोधे पक्षातीते पक्षाद्यतीते पक्षं चतुर्मासकं वाऽतिक्रम्यापि कृतावस्थाने तथा प्रगाढेषु पक्षाद्यतिक्रान्तेषु मायामदादिषु, लोभातिरेकतः परवञ्चनात्मिका माया, मदो जात्यादिरष्टप्रकार: पीठिकायां प्रागुक्तस्वरूपः, आदिशब्दात् प्रगाढलोभादिषु कलहादिषु च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवतीति । —

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122