Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 68
________________ सङ्घ-जीयकप्पो |...५७... 'रसहेउं संजोगो पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य ।। (पिं०नि० ६७७) पिण्डाधिकाराच्च पिण्डविषयैवैषा संयोजनाऽभिहिता । एवमुपकरणविषयाऽपि साऽवगन्तव्या १। अथातिप्रमाणदोषः । तत्र साधोर्यावन्मात्रेण द्वात्रिंशत्कवलादिप्रमाणेनाहारेण भुक्तेन धृतिबलसंयमयोगा न हीयन्ते तावन्मात्रमाहारप्रमाणं भोजने विज्ञेयम् । कुकुड्यण्डकप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयते'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला' ।। (पिं०नि० ६७८) उदरभागापेक्षं त्वेवम् - 'अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा छन्भागं ऊणगं कुज्जा' ।। (पिं०नि० ६८६) प्रकामनिकामप्रणीतभक्तपानातिबह्वाहारातिबहुवारभोजनादौ च प्रमाणातिक्रमदोषः स्यात् । यदुक्तम् - 'पगामं च निगामं च पणीअं भत्तपाणमाहरे । अइबहुअं अइबहुसो पमाणदोसो मुणेयब्बो' ।। (पिं०नि० ६८०) तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुानस्य प्रकामभोजनम् । तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् । गलत्स्नेहं भोजनं प्रणीतम् । अतिशयेन निजप्रमाणातिरेकेण बहु अतिबहु । त्रिभ्यो वारेभ्यः परतो भोजनमतिबहुशः । अतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति । अतः प्रमाणातिक्रमो न कर्त्तव्यः प्रमाणयुक्तमेव च भोक्तव्यम् । तस्यैव गुणावहत्वात् । यदाह - 'अप्पाहारस्स न इंदियाई विसएसु संपवटुंति । नेव किलिस्सइ तवसा रसिएसु न मुज्झए आवि।। तथा (पंचवस्तुक० १३९२) 'हिआहारा मिआहारा अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छिगा' ।। (पिं०नि० ६८४) २। अङ्गारं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मृष्टमहो ! सुसम्भृतं सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमङ्गारम्, चरणेन्धनस्य प्रदीप्तरागाग्निना अङ्गारसन्निभत्वापादनात् । यदुक्तं - 'तं होइ सइंगालं आहारेइ मुच्छिओ संतो' । (पिं०नि० ६५५ पूर्वार्द्ध) ३ । धूमं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सन्नहो ! विरूपं

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122