Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
सड-जीयकप्पो
...३४...
गृहवासे वसन्ति स्म भोगाँश्च भुक्तवन्तः ? इत्येवं तीर्थकृतोऽधिक्षिपेत्, सङ्घ च दृष्ट्वाऽवज्ञया वदेत्-हुं हुंदृष्टा मयाऽरण्येऽपि सङ्घाः श्रृगाल-श्वान-वृक-चित्रकादीनामिति । श्रुतं चैवमधिक्षिपति यथा - 'काया वया य तेच्चिय पुणोवि ते च्चिय पमाय-अपमाया । मोक्खस्स देसणाए जोइसजोणीहि किं कज्जं?'।।
___ (नि०भा०३३०८, बृ०क० ४९७९) आचार्यं जात्यादिभिरधिक्षिपति । महर्द्धिकाश्च, गणभृतो गौतमादयः । ये वा यस्मिन् युगे प्रधानभूतास्तान् ऋद्धि-रस-सातगौरवप्रसक्ताः कथका इव लोकावर्जनोद्यता एते इत्यादिवाक्यैरधिक्षिपति । स आशातनाकारित्वादाशातनातपोऽनवस्थाप्यः । स जघन्येन षण्मासानुत्कर्षतः संवत्सरं यावत्तपः कुर्वन् कर्त्तव्यः । तावता च तपसा क्षपिताशातनाजनितकर्मत्वात्तदूर्ध्वं महाव्रतेषु स्थाप्यते । प्रतिसेवनानवस्थाप्यमाह'वासं बारस वासा पडिसेवी कारणाउ सम्बोवि । थोवं थोवयरं वा वहिज्ज मुंचिज्ज वा सव्वं'। ।।
___ (जइजीयकप्पो २८८) व्याख्या–प्रतिसेवी प्रतिसेवनानवस्थाप्यः साधर्मिकाऽन्यधार्मिकस्तैन्याभ्यां परमरणभयनिरपेक्षयष्टिमुष्टिलकुडादिप्रहारप्रदानलक्षणहस्ततालादिभिश्च भवति । स च जघन्यतो वर्षमुत्कर्षतो द्वादशवर्षाणि तदनन्तरं व्रतेषु स्थाप्यते । स चानवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तु मूलमेव दीयते। तथा चोक्तम् - 'संघयणवीरिय आगम सुत्तत्थविहीइ जो समग्गो य । तवसी निग्गहजुत्तो पवयणसारे अ गहिअत्थो' ।।
(बृ०क० ५०२९, गु०वि० २/३१३) 'तिलतुसतिभागमित्तो वि जस्स असुहो न विजई भावो । निज्जूहणारिहो सो सेसे निज्जूहणा नत्थि' ।।
(बृ०क० ५०३०, गु०वि० २/३१४) 'एय गुणसंपउत्तो पावइ अणवट्ठमुत्तमगुणोहो । एअ गुणविप्पहीणे तारिसगंमी भवे मूलं' ।।
(बृ०क० ५०३१) तवसी तपश्चरणवान् निग्गहजुत्तो जितेन्द्रियः निज्जूहणारिहो गच्छात् पृथक्करणार्हः । अपवादतस्त्वनन्यसाध्यकुलगणसङ्घकार्यकारीत्यतः कारणात् सर्वोऽपि-द्विप्रकारोऽपि आशातनानवस्थाप्य-प्रतिसेवनानवस्थाप्यलक्षणस्तत्तपो न कारयेदित्यर्थः । यस्त्वनवस्थाप्यतपः प्रतिपद्यते तद्विधिमाह'वंदइ न य वंदिज्जइ परिहारतवं सुदुच्चरं चरइ । संवासो से कप्पइ नालवणाईणि सेसाणि' ।।
(जइजीयकप्पो २८९) व्याख्या-अनवस्थाप्यतपश्चरणकरणकालं यावत् स्वगणं गीतार्थे निक्षिप्याचार्य उपाध्याये वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु स्वातिचारं प्रकाशयति, तदनन्तरं तस्मिन् जघन्येन मासमुत्कर्षतः षण्मासादिकमनवस्थाप्यतपः प्रतिपद्यमाने आलोचनादायकः कार्योत्सर्गं करोति ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122