Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 76
________________ सड - जीयकप्पो 'गोभत्तालंदा विव बहुरूअ नडुब एलगो चेव । संसत्तो सो दुविहो असंकिलिट्ठो य इयरो वा'।। व्याख्या-गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्दः । अलिन्दो भाजनविशेषः स इव । किमुक्तं भवतियथा अलिन्दे गोभक्तं-कुक्कुसा ओदनमवश्रावणमित्यादिसर्वमेकत्र मिलितं भवतीति संसक्त उच्यते। एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति, संविग्नेषु मिलितः संविग्नसदृशः संसक्त इति । यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति । एवं बहुरूप नट इव सोऽपि पार्श्वस्थादिमिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति । यदि वा यथा-एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिकाकुण्डनिमग्नः सन् नीलवर्ण इत्यादि । स च द्विविधो द्विप्रकारः । तद्यथा-असङ्क्लिष्ट इतरश्च सक्लिष्टः । तत्रासङ्क्लिष्टमाह - 'पासत्थ अहाछदे कुसील ओसन्न पप्प एमेव । संसत्तो पियधम्मेसु चेव इणमो असंकिलिट्ठो'' ।। (व्य०सू०८८०) व्याख्या पार्श्वस्थे मिलितः पार्श्वस्थः, यथाछन्दे यथाछन्दः कुशीले कुशीलः, अवसन्नेऽवसन्नः, संसक्ते संसक्तः, तथा प्रियधर्मसु मिलितः प्रियधर्मा । एष असङ्क्लिष्टः संसक्तो ज्ञातव्यः । सक्लिष्टमाह'पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहि संकिलिट्ठो संसत्तो सो उ नायव्वो' ।।। (व्य०सू० ८८१, गु०वि० ३-९८) व्याख्या-यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः, तथा त्रिभिर्गारवैर्ऋद्धिरससातलक्षणैः प्रतिबद्धः । तथा स्त्रीषु गृहिषु प्रतिबद्धः स सङ्क्लिष्टः संसक्तो ज्ञातव्यः । व्यावर्णितः संसक्तः । इदानीं यथाछन्दमाह - 'उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो य अहाछन्दो इच्छाछन्दो य एगट्ठा'। ।। (व्य०सू० ८५१, गु०वि० ३-९९) व्याख्या-सूत्रादूर्ध्वमुत्सूत्रम् । तदाचरन् प्रतिसेवमानः तदेव यः परेभ्यः प्रज्ञापयन् वर्तते । एष यथाछन्दोऽभिधीयते । इच्छाछन्द इत्येकार्थः । यथाछन्द इच्छाछन्दश्चेति तस्य नामद्वयं भवतीत्यर्थः। उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति - 'उस्सुत्तमणुवइष्टुं सच्छन्दविगप्पियं अणणुवाई । परतत्तिपवत्तो तितिणो अ एसो अहाछन्दो'। ।। (व्य०सू० ८५२, गु०वि०३-१००)

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122