Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 64
________________ सड- जीयकप्पो ...५३... मुसलघातैः श्लक्ष्णीकरोतीत्यर्थः । तया दीयमाना भिक्षा न ग्राह्या, बीजसचट्टाद्यारम्भसम्भवात् १६ । तथा पिनष्टि शिलायां तिलामलककुस्तुम्बरुलवणजीरकादीनि मृद्नातीति भावः । अनयापि दीयमानं न कल्पते तिलादिसङ्घट्टसद्भावात् १७ । तथा भृज्जति चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः । तया दीयमानं न कल्पते कडिल्लकादौ प्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात् १८ । तथा जेमति भुङ्क्तेऽभ्यवहरतीत्यर्थः । भुआना ह्याचमनं विधाय साधुभ्यो यदि दद्यात्तदाऽप्कायविराधना। अथैतदोषभ भयात तदकत्वैव वितरेत तदोच्छिष्टमप्यते न त्यजन्तीत्यादिजनापवादः । तत्र च महान दोषः । यदाह'छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे अ'।। (ओ०नि० ४४३) इत्यतो न कल्पते १९ । तथा विरोलयति करमन्थनादिना दध्यादिकं मथ्नाति । सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते २० । तथा दलति सजीवं सचित्तं गोधूमादिधान्यं घरट्टेन पिनष्टि । इयं भिक्षादानायोत्तिष्ठन्ती बीजादि सङ्घट्टयति दत्त्वा च करौ प्रक्षालयतीति न गृह्यते २१ । तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति, तया दीयमाना भिक्षा न कल्पते प्रवर्तनादिदोषसम्भवात् २२ । तथोद्वर्त्तयति साधुदानबुद्ध्या परावर्त्तयति पिठरादि स्थाल्यादि नामयतीत्यर्थः । अत्र च कीटिकादिसत्त्वोपघातः स्यात् २३ । तथा त्रिधोधिस्तिर्यग्लक्षणैस्त्रिभिस्त्रिभिः प्रकारैः सप्रत्यपायकाष्ठकण्टकगवादिभ्यः सकाशात्सम्भाव्यमानाभिघाताद्यनर्था या काचिद्वनिता स्यात् । 'तहा सपच्चवाया जा'' इति पाठे तु तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादिर्वा तया दीयमानं ते २४ । तथा साधारणं बह्वायत्तं तद्ददातीति योगः । तत्र साधारणानिसृष्टवद्दोषा वाच्याः २५ । तथा चोरितकं चौरिकया गृहीतं साधुभ्यो ददाति । तत्र च दोषाः प्रतीता एव २६ । तथा पराक्यं परसत्कं परकीयमिदमित्युक्त्वा ददाति । अथवा परार्थं परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थस्तद्ददाति । अत्र च परसत्के तत्स्वामिनाऽननुज्ञाते परदानाय कल्पिते च दीयमाने अदत्तादानाऽन्तरायादयो दोषाः २७ । तथा या कर्त्तयति रूतं चक्रेण सूत्रं करोति २८ । तथा लोढयति कर्पासं लोढिन्यां कनकेन निरस्थिकं करोतीत्यर्थः २९ । तथा पिञ्जयति रूतं पिञ्जनेन मृदूकरोति ३० । तथा 'विक्खिणइ' त्ति । विकीर्णयति रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति ३१ । एताभिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसङ्घट्टन-देयवस्तुखरण्टितहस्तधावनदोषसम्भवात् । तथा प्रगलन् गलत्कुष्ठस्ततो भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रातिः स्यात्तदीयोच्छ्वासत्वक्संस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिभिः शरीरान्तरे तत्सङ्क्रमणस्याभिहितत्वात्ततो न ग्राह्या ३२ ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122