Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 23
________________ सङ्घ- जीयकप्पो ...१२... अथ पञ्चानामाचार्यादीनां प्रागुक्तानां किञ्चित्स्वरूपं व्यवहारभाष्यगाथाभिरेव स्पष्टीक्रियते। तत्र प्रथममाचार्यस्वरूपमाह'सुत्तत्थतदुभएहि उवउत्ता नाणदंसणचरित्ते । गणतत्तिविप्पमुक्का एरिसया हुंति आयरिया' ।। (व्य०सू०९४४) व्याख्या-ये सूत्रार्थतदुभयैरुपेता इति गम्यते । तथा ज्ञानं च दर्शनं च चारित्रं चेति समाहारो द्वन्द्वस्तेषु सततमुपयुक्ताः कृतोपयोगाः । तथा गणस्य गच्छस्य या तप्तिः सारा तया विप्रमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात्, उपलक्षणमेतत् शुभलक्षणोपेताश्च । ये एतादृशा एवंविधगुणोपेता भवन्ति ते आचार्याः । ते चार्थमेव केवलं भाषन्ते, न तु सूत्रमपि वाचयन्ति। तथा चोक्तम्'सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुक्को अत्थं भासेइ आयरिओ' ।।१।। (गाथासहस्री ६३८) अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति ? तत आहएगग्गया य झाणे वुड्ढी तित्थयर अणुगिई गुरुया । आणाथिज्जमिइ गुरू कयरिणमुक्खो न वाएइ ।। (व्य०सू० ९४५) व्याख्या-सूत्रवाचनप्रदानपरिहारेणार्थमेव केवलं व्याख्यानयत आचार्यस्यैकाग्रता एकाग्रमनस्कता ध्याने अर्थचिन्तनात्मके भवति । यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् । एकाग्रतयाऽपि को गुणः ? इत्यत आह – 'वृद्धिः'। एकाग्रस्य हि सतोऽर्थचिन्तयतः सूत्रार्थस्य तत्र सूक्ष्मार्थोन्मीलनाद् वृद्धिरुपजायते । तथा तीर्थकरानुकृतिरेवं कृता भवति । तथाहितीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कुर्वन्ति । एवमाचार्या अपि तथावर्त्तमानास्तीर्थकरानुकारिणो भवन्ति । सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते । तद्वाचनायास्ततोऽधस्तनपदवृत्तिभिः क्रियमाणत्वाद् । एवं च तस्य तथावर्त्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति । यद्गुरुतायां च प्रवचनप्रभावना । तथा आज्ञायां स्थैर्यमाज्ञास्थैर्य कृतं भवति । तीर्थकृतामेवमाशा पालिता भवतीत्यर्थः । इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेण ममानुकारिणा आचार्येण भवितव्यमिति । इत्यस्माद्धेतुकलापाद् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षः, तेन हि सामान्यावस्थायामनेके साधवः सूत्रमध्यापितास्तत ऋणमोक्षस्य कृतत्वात् सूत्रं न वाचयति । उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाहसुत्तत्थतदुभयविऊ उज्जुत्ता नाणदसणचरित्ते । निष्फायग सीसाणं एरिसया हुंति उज्झाया ।। ( व्य०सू० ९४६ )

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122