Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 85
________________ सडक ...७४... अथ द्वितीयाणुव्रतविषयं प्रायश्चित्तमाह गुरुमाइतिविहमोसे भिन्नं जाराइदोसदाणिन्ने । डाहणि (? डाइणि) - निहिलाहे लह गुरुगा चोरे जणसमक्खं ।। ७८ ।। व्याख्या - इह किल द्रव्यक्षेत्रकालभावानाश्रित्योत्कृष्टादिभेदस्त्रिविधो मृषावादः । यदुक्तं 'निशीथचूर्णौमुसावाओ जाव राई भोअणम्, एएसिं इक्किकं तिविहम्, ते य इमे तिगभेदा - उक्कोसो मज्झिमो जहण्णो य । दव्वाइया चउहत्ति । उक्कोसमुसावाओ चउव्विहो - दव्वओ खेत्तओ कालओ भावओ । मज्झिमो वि चउव्विहो दव्बाइ । एवं जहण्णो वि चउव्विहो । एवं अदत्तादाणं दुवालसभेअम् । मेहुणंपि परिग्गहो वि राईभोयणंपि दुवालसभेदम् । उक्कोसं पुण दव्वं एवं भवइ । बहुत्तओ सारओ वा मूल्लओ वा । एवं मज्झिमे वि तिन्नि भेया । जहण्णे वि तिन्नि भेया । उक्कोसे दव्वावलावे उक्कोसो मुसावाओ, मज्झिमे मज्झो, जहन्ने जहन्नो । एवं अदत्ताइसु जोअणिज्जं । खित्तओ जं जत्थ खित्ते अर्चितं मज्झिमं जहन्नं वा । कालओ जं जत्थ काले अर्चितं मज्झिमं जहन्नं वा । भावओ वि वण्णाइगुणेहिं उक्कोसं मज्झिमं जहन्नं वा । एवं बुद्धीए आलोएवं जोअणा कायव्वा' इति । तत्र त्रिविधेऽपि जघन्यमध्यमोत्कृष्टरूपे मृषावादे गुर्वादि प्रायश्चित्तं भवति । जघन्यमृषावादे गुरुमासः, मध्यममृषावादे चतुर्लघु, उत्कृष्टमृषावादे चतुर्गुरु च प्रायश्चित्तं भवतीति सर्वत्राऽपि भावना कार्या । केचिज्जघन्ये मध्यमे उत्कृष्टे पञ्चकल्यं च । अपरे पुनर्जघन्यादौ मासलघ्वादिकमाहुः । 'भिन्नं'' ति । 'जणसमक्ख' ' मित्यस्य गाथापर्यन्तवर्त्तिनः सर्वत्राऽपि योगाज्जनसमक्षं जारविलासिन्यादिदोषदानेऽन्ये पुनराचार्या भिन्नं प्राहुः । 'डाइणि' ' त्ति । लोकसमक्षमेवेयं डाकिनी, लब्धोऽमुत्रामुना निधिः, उपलक्षणत्वात् स्थितो वाऽस्य समीपेऽमुकनिक्षेप इत्यादिभणने लघुमासः, 'गुरुगत्ति' जनसमक्षमेव चौरोऽयं यतोऽमुकस्यानेनामुकं चोरितमित्यादिभणने गुरुकाश्चतुर्गुरव इति । एके तु चौरजारप्रभृतिकलङ्कदाने राटिरटने च जघन्ये चतुर्लघु मध्यमे स्वजनादिसमक्षे चतुर्गुरु उत्कृष्टे राजपर्यन्ते क्षपणद्वयम् । दण्डापितेऽशीतिसहस्राधिकं लक्षस्वाध्यायं चाहुः । केचित्त्वक्षरमषीमन्त्रभेदे चतुर्लघु इति कथयन्तीति गाथार्थः । । ७८ ।। चउलहु परपरिवायाब्भक्खाणासम्भराडिपेसुन्ने । रायकुलंते कलहे पणकल्लं दप्पभणिए अ ।। ७९ ।। व्याख्या - परपरिवादे स्वभावादन्यदोषप्रकाशने अभ्याख्याने प्रकटमसद्दोषाध्यारोपे असभ्यराटिकादाने असभ्यवचनोच्चारपूर्वककलहे पैशून्ये प्रच्छन्नं सदसद्दोषाध्यारोपे च 'चउलहु' ' त् । प्रत्येकं चतुर्लघु । 'राय' ति । राजकुलान्ते राजकुलं यावत् प्रसिद्धे कलहे कृते, दर्पेण च भणिते पञ्चकल्यम्, चशब्दाद् वक्ष्यमाणादत्तादानादिष्वपि दर्पेणाचरितेषु पञ्चकल्यमेव । यदुक्तम्

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122