Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 41
________________ सड - जीयकप्पो ...३०... जह मन्ने पढम सेविऊण निग्गच्छई उ चरिमेणं । तह मन्ने चरिमं सेविऊण निग्गच्छई पढमे ।।४५।। व्याख्या-मन्ये सम्भावये, यथा येन पूर्वोक्तप्रकारेण प्रथमं प्रथमालोचनाप्रायश्चित्तशोध्यं पदमासेव्यातिसक्लिष्टाध्यवसायत्वाच्चरिमेण निर्गच्छति पाराधिकप्रायश्चित्तेन शुद्ध्यतीत्यर्थः । तुशब्दादनवस्थाप्यादिभिरपि । तथा मन्ये, चरिमं पाराञ्चिकोचितं पदमासेव्य ज्ञानाद्यालम्बनमपेक्ष्य सम्यग् यतनया प्रवृत्तत्वेन 'निग्गच्छइ पढमे'' त्ति । प्रथमालोचनाप्रायश्चित्तेनैव शुद्भयतीति भावः । यस्मादेवं तस्माद्यद् गुरव उपदिशन्ति प्रायश्चित्तं तत्तथैव समाचरितव्यमनवस्थाप्रसङ्गादिदोषभीतेन जन्तुनेति पूर्वगाथया सह सम्बन्धः ।। अथ प्रायश्चित्तभेदानाह - तं दसविहमालोयण-पडिकमणोभय-विवेगमुस्सग्गे । तव-छेय-मूल-अणवट्ठया य पारंचिए चेव ।।४६।। व्याख्या- 'तं'' ति । तत् प्रस्तुतं प्रायश्चित्तं दशविधं दशप्रकारं भवतीतिक्रियासम्बन्धः। के ते दश प्रकारा ? इत्याह- 'आलोयण'' त्ति । आलोचनम् आ-मर्यादया 'जह बालो जपंतो' (अत्रग्रन्थेमूलगाथा १३) इत्यादिरूपया लोचनं-गुरोः पुरतः प्रकाशनमालोचनं, वचसा प्रकटीकरणमिति भावः। तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनाहँ, तद्विशोधक प्रायश्चित्तमुपचारादालोचनार्हम् । एवं सर्वेष्वपि उपचारो द्रष्टव्यः । १। प्रतिक्रमणं सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापन्न इत्यादिकमन्यदपि यद् मिथ्यादुष्कृतमात्रेणैव शुद्ध्यति, न गुरोः पुरत आलोच्यते तत् प्रतिक्रमणार्हम् ।२। उभयम् आलोचनाप्रतिक्रमणरूपम् । यच्च प्रतिसेव्य गुरोः पुरत आलोच्यते गुरूपदेशेन च विशुद्ध्यर्थं मिथ्यादुष्कृतं दीयते तत् तदुभयाहम् ।३। विवेकः त्यागः, यस्य चानेषणीयादे : गृहीतभक्तपानादेर्विधिना परित्यागेनैव शुद्धिस्तद्विवेकार्हम् ।४। व्युत्सर्गः कायोत्सर्गः, यत्र कायचेष्टानिरोधरूपकायोत्सर्गोपयोगमात्रेणैव दुःस्वप्नादिकमिव शुद्ध्यति तद् व्युत्सर्गार्हम् ।५। तपः यत्र प्रतिसेविते निर्विकृत्यादि षण्मासिकान्तं तपो दीयते तत् तपोऽहम् ।६। छेदः यथा शेषाङ्गरक्षार्थं व्याधिदूषितमङ्गं छिद्यते , एवं व्रतशेषपर्यायरक्षार्थमतिचारानुमानेन दूषितः पर्यायो यत्र छिद्यते तच्छेदार्हम् ।७। मूलं यस्यां चासेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलाहम् ।८। अनवस्थाप्यः यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनवस्थाप्यः क्रियते, पश्चादाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते तदनवस्थाप्यमेतदुपाध्यायादेर्भवति ।९।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122