Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 79
________________ सड-जीयकप्पो ...६८... लघुमासगुरुमासौ । तथा नाशिते स्थापनाचार्ये भिन्नम् । मतान्तरेण तु गुरुमासः । अप्रत्युपेक्षिते भिन्नम्, अप्रत्युपेक्षितस्थापनाचार्यपुरतोऽनुष्ठानकरणे लघुमासः, स्वाध्यायशतं वा केचित् प्रतिपादयन्तीति गाथार्थः ।। ६६ । अथ जिनप्रतिमाशातनाविशेषविषयं प्रायश्चित्तमाह — पडिमाइ भंगदाहे पलीवणाइसु पमायणाभोगा । पट्टिअ - पुत्थाईण वि नवकारणपुव्व लहुगाई ।। ६७ ।। व्याख्या - प्रदीपन धाटिप्रपात - ग्रामभङ्गादिषु प्रमादानाभोगाभ्यां प्रतिमाया भङ्गे दाहे नाशने वा । तथा पट्टिका पुस्तकादीनामपि भङ्गादिषु नवकारणपूर्वं तानि प्रतिमादीनि नवानि कारयित्वेत्यर्थः 1 'लहुगाई'' त्ति । चतुर्लघुचतुर्गुरुषड्लघूनि क्रमाद् भवन्ति । मतान्तरेण पुनः प्रतिमायाः प्रदीपनादौ ज्वलने नमस्कारलक्षम् । हस्ताद्यवयवभङ्गे तु नमस्कारदशसहस्रीति गाथार्थः । । ६७।। अथ यतिद्रव्यपरिभोगे प्रायश्चित्तमाह - मुहपत्ति - आसणासु भिन्नं जलन्नाईसु गुरु लहुगाइ । जइदव्वभोगि इय पुण वत्थाइसु देवदव्वं वा । । ६८ ।। अथ साधारणदेवद्रव्यादिविषयं प्रायश्चित्तमाह ( द्र०स० ५८ ) व्याख्या - मुखवस्त्रिकाऽऽसनशयनादिषु, अर्थाद् गुरुयतिसत्केषु परिभुक्तेषु भिन्नम् । तथा 'जलन्नाईसु' ' त्ति । यतिसत्के जले अन्ने, आदिशब्दात् वस्त्रादौ कनकादौ च । ।।१।। 'धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं नराधिपः ' " इत्यादिप्रकारेण केनापि साधुनिश्रया कृते लिङ्गिसत्के वा परिभुक्ते सति ‘'गुरुलहुगाई' त्ति । क्रमेण गुरुमासश्चतुर्लघव आदिशब्दाच्चतुर्गुरवः षड्लघवश्च स्युः । अयमर्थः - गुरुसत्के जले परिभुक्ते १ी । अन्ने ४ वस्त्रादौ भी कनकादौ ६ प्रायश्चित्तानि भवन्ति । यतिद्रव्य भोगे 'इय' ' त्ति । एवं प्रकारः प्रायश्चित्तविधिरवगन्तव्यः । अत्रापि पुनर्वस्त्रादौ देवद्रव्यवत् वक्ष्यमाणदेवद्रव्यविषयप्रकारवत् ज्ञेयम् । अयमर्थः - यत्र गुरुद्रव्यं भुक्तं स्यात् तत्राऽन्यत्र वा साधुकार्ये वैद्याद्यर्थं बन्दिग्रहादिप्रत्यपायापगमाद्यर्थं वा तावन्मितवस्त्रादिप्रदानपूर्वमुक्तं प्रायश्चित्तं देयमिति गाथार्थः ।। ६८ ।। साहारण - जिणदव्वं जं भुत्तं असण-वत्थ - कणगाई । तत्थन्नत्थ व दिन्ने चउलहु - चउगुरुअ - छल्लहुगा । । ६९।। ( द्र०स० ५९ )

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122