Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 272
________________ पर्याप्त्यधिकाराः। २६७ ततः परं तु गैवेयकं भजनीयाः शलाकापुरुषास्तु । तेषामनंतरभवे भजनीयं निर्वृतिगमनं ॥ १३९ ॥ टीका-ततः परं सौधर्मप्रारभ्य नवौवयेकं यावत्तेभ्यो देवा आगत्य शलाकापुरुषा भवंति न भवंतीति भाज्यास्तेषामनंतरभवेन च निवृतिगमन.. भाज्यं कदाचिद्भवति कदाचिन्नेति ॥ १३९ ॥ तत ऊर्ध्वं वासुदेवा आगत्य भवंतीति प्रतिपादयन्नाह;णिव्वुदिगमणे रामत्तणे य तित्थयरचक्कवट्टित्ते । अणुदिसणुत्तरवासी तदो चुदाहोंति भयणिज्जा॥१४०॥ निवृत्तिर्गमनेन रामत्वेन च तीर्थकरचक्रवर्तित्वेन । अनुदिशानुत्तरवासिनः तेभ्यः च्युता भवंति भजनीया ॥ १४०॥ टीका-निर्वृतिगमनेन रामत्वेन तीर्थकरत्वेन चक्रवर्तित्वेन च भाज्याः अनुदिशानुत्तरवासिनो देवास्तेभ्यो विमानेभ्यश्च्युताः संतः कदाचित्तीर्थकररामचक्रवर्तिनो मुक्ताश्च भवंति न भवंति च, वासुदेवाः पुनर्न भवंति. एवेति ॥ १४० ॥ ये पुनर्निश्चयेन निवृतिं गच्छंति तान् प्रतिपादयन्नाह;सव्वट्ठादो य चुदा भज्जा तित्थयरचक्कवद्वित्ते । रामत्तणेण भज्जा णियमा पुण णिव्वुदि जति ॥१४१॥ सर्वार्थाच च्युता भाज्याः तीर्थकरचक्रवर्तित्वेन । रामत्वेन भाज्या नियमात् पुननिर्वृतिं यांति ॥ १४१ ॥ टीका-सर्वार्थात्सर्वार्थसिद्धेश्च्युता देवास्तीर्थकरत्वेन चक्रवर्तित्वेन रामत्वेन च भाज्याः, निर्वृतिं पुनर्निश्चयेन यांत्येव न तत्र विकल्पः सर्वे त आगत्य चरमदेहा भवंति तीर्थकरचक्रवर्तिगमविभूतिं भुक्का मंडलिकदिविभूतिं च संयममादाय नियमान्मुक्तिं गच्छति ॥ १४१॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338