Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 299
________________ २९४ मूलाचारे __इदानीमुत्तरप्रकृतिबंधमाह,पंच णव दोणि अट्ठावीसं चदुरो तहेव वादालं । दोण्णि य पंच य भणिया पयडीओ उत्तरा चेव ॥१८६॥ पंच नव द्वे अष्टाविंशतिः चतस्रः तथैव द्वाचत्वारिंशत् । द्वे च पंच च भणिताः प्रकृतय उत्तराश्चैव ॥ १८६ ॥ टीका-ज्ञानावरणस्य पंच प्रकृतयः, दर्शनावरणस्य नव प्रकृतयः, वेदनीयस्य द्वे प्रकृती, मोहनीयस्याष्टाविंशतिः प्रकृतयः, आयुषश्चतस्रः प्रकृतयः, नाम्नो द्विचत्वारिंशत्प्रकृतयः, गोत्रस्य द्वे प्रकृती, अंतरायस्य पंच प्रकृतयः । अथवा पंचप्रकृतयो ज्ञानावरणमित्येवमादि । इत्येवं नामत्रिनवत्यपेक्षयाऽष्टचत्वारिंशच्छतमुत्तरप्रकृतयो भवंतीति वेदितव्यम् ॥ १८६ ॥ के ते ज्ञानावरणस्य पंच भेदा इत्याशंकायामाह;-- आभिणिबोहियसुदओहीमणपज्जयकेवलाणं च । आवरणं णाणाणं णाव्वं सवभेदाणं ॥ १८७॥ आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलानां च । आवरणं ज्ञानानां ज्ञातव्यं सर्वभेदानां ॥ १८७ ॥ टीका-अभिमुखो नियतो बोध अभिनिबोधः स्थूलवर्तमानांतरिता अर्था अभिमुखाश्चक्षुरिंद्रिये रूपं नियमितं श्रोत्रंद्रिये शब्दः घ्राणेंद्रिये गंधः रसनेंद्रिये रसः स्पर्शनेंद्रिये स्पर्शः नोइंद्रिये दृष्टश्रुतानुभूता नियमिताः, आभिमुखेषु नियमितेष्वर्थेषु यो बोधः स अभिनिबोध अभिनिबोध एवाभिनिबोधकं ज्ञानमत्र विशेषस्य सामान्यरूपत्वात्, आभिनिबोधिकं विशेषेणान्येभ्योऽवच्छेदकमतो न पुनरुक्तदोषः । श्रुतं मतिपूर्वमिंद्रियगृहीतार्थात्पृथग्भूतमर्थग्रहणं यथा घटशब्दात् घटार्थप्रतिपत्तिधूमाच्चान्युपलंभ इति । अवधानादवधिः पुद्गलमर्यादावबोधः । परकीयमनोगतार्थं मन इत्युच्यत

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338