Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
३२३
इति । एवंविधं कृत्वाऽनिवृत्तिगुणस्थानं प्रविश्यानिवृत्तिसंख्यात भागोऽपूर्वकरणविधानेन गमयित्वाऽनिवृत्तिकाल संख्यातिभागे शेषे स्त्यानगृद्धित्रय नरकगतितिर्यग्गत्ये केंद्रियद्वीन्द्रियत्रींद्रियचतुरींद्रिय जाति नरकगतितिर्यग्गतिप्रायोग्यानुपूर्व्यातपोद्योत स्थावरसूक्ष्मसाधारणसंज्ञकाः षोडशप्रकृतीः क्षपयति ततोंतर्मुहूर्त्त गत्वा अप्रत्याख्यानावरणक्रोधमानमायालोभान् क्रमेण क्षपयति स एष कर्मप्राभृतस्योपदेशः, कषायप्राभृतापदेशः पुनः अष्टसु कषायेषु क्षीणेषु पश्चादन्तमुहूर्ते गत्वा षोडशकर्माणि द्वादश वा क्षपयत्यत उपदेशौ ग्राह्यौद्वावप्यवयभीरुभिरिति । ततऽतमुहूर्त्तं गत्वा चतुर्णां संज्वलनानां नवानां नोकषायाणां अंतरं करोति, सोदयानामंतमुहूर्तमात्रं प्रथमस्थितिं स्थापयति अनुदयानां समयोनाबलिकामात्रां प्रथमस्थितिं स्थापयति ततोंतरं कृत्वांतर्मुहूर्त्तेन नपुंसकवेदं क्षपयति ततोऽतर्मुहूर्ते गत्वा स्त्रीनेदं क्षपयति ततोऽतर्मुहूर्तं गत्वा षण्णो कषायाणां वेदं चिरंतनसत्कर्मणा सह वेदविद्विचरमसमये युगपत् क्षपयति ततं आवलीमात्रकालं गत्वा वेदं क्षपयति ततोऽतमुहूर्त्तेन क्रोधसंज्वलनं क्षपयति ततोऽतमुहूर्त्तेन मानसंज्वलनं क्षपयति ततोऽन्तर्भुहूर्तेन मायासंज्वलनं क्षपयति तततर्मुहूर्तं गत्वा सूक्ष्मसांपरायगुणस्थानं प्रतिपाद्यते एतेषु सोऽपि सूक्ष्मसांपरायमात्मनश्वरमसमये किट्टिकागतं सर्वं लोभसंज्वलनं क्षपयति ततोऽनंतरं क्षीणकषायो भवति सोऽप्यंत मुहूर्त गमयित्वा आत्मनो द्विचरमसमये निद्राप्रचलासंज्ञके द्वे प्रकृती क्षपयति ततोऽनंतरं चरमसमये पंचज्ञानावरणचतुर्दर्शनाबरणपंचांतर याख्याश्चतुर्दश प्रकृतीः क्षपयति एतेषु त्रिषष्टिकर्मसु क्षीणेषु सयोगिजिनो भवति ॥ २०५ ॥
पर्याप्तत्यधिकारः : ।
सयोगिकेवली भट्टारको न किंचिदपि कर्म क्षपयति ततः क्रमेण विहृत्य • योगनिरोधं कृत्वा अयोगिकेवली भवति स यत्कर्म क्षपयति तन्निरूपयन्नाह; तत्तोरा लियदेहो णामा गोदं च केवली युगवं । आऊण वेदणीयं चतुहिं खिविइत्तु णीरओ होइ ॥ २०६ ॥
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338