Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याप्त्यधिकारः।
३१५
स्तद्यथा, सातवेदनीयस्त्रीवेदमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नामुत्कृष्टा स्थितिर्दशसागरोपमकोटीकोट्यः, षोडशकषायाणामुत्कृष्टः स्थितिवंधश्चत्वारिंशकोटीकोट्यः सागराणां, पुंवेदहास्यरतिदेवगतिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननदेवगतिप्रायोग्यानुपूर्व्यप्रशस्तबिहायोगतिस्थिरसुभगशुभस्वरादेययशः कीर्तिरूंच्चैर्गोत्राणामुत्कृष्टः स्थितिबंधः दशसागरोपमकोटीकोट्यः, नपुंसकवेदारतिशोकमयजुगुप्सानरकगतितिर्यग्गत्यकेंद्रियपंचेंद्रियजात्यौदारिकवैक्रियिकतैजसकार्माणशरीरहुंडसंस्थानौदारिकवक्रियिकांगोपां-गासंप्राप्तास॒पाटिकासंहननवर्णरसगंधस्पर्शनरकगतितिर्यग्गातिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याप्तप्रत्येकशरीरास्थिराशुभदुर्भगदुःस्वरानादेयायशस्कीर्तिनाम्नां नीचैर्गोत्राणामुत्कृष्टः स्थितिबंधो विंशतिसागरोपमकोटीकोट्यो नरकदेवायुषोस्त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टास्थितिः, तिर्यजनुष्यायुष उत्कृष्टा स्थितिस्त्रीणि पल्योपमानि द्वीन्द्रियत्रीन्द्रियचतुरािंद्रियजातिवामनसंस्थानकीलकसंहननसूक्ष्मापर्याप्तसाधारणनाम्नामुत्कृष्टस्थितिः अष्टादशसागरोपमकोटीकोट्यः, आहारशरीरांगोपांगतीर्थकरनाम्नामुत्कृष्टा स्थितिः अंतःकोटीकोट्यः न्यग्रोधसंस्थाननाराचसंहननयोरुत्कृष्टस्थितिश्चतुर्दशसागरोपमकोटीकोट्यः, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडशसागरोपमकोटीकोट्यः । सर्वत्र यावंत्यः सागरोपमकोटीकोट्यस्तावंति वर्षशतान्यावाधाकर्मस्थितिः कर्मनिषेधकः, येषां तु अंतःकोटीकोट्यः स्थितिस्तेषामर्मुहूर्त आवाधा, आयुषः पूर्वकोटीत्रिभाग उत्कृष्टावाधा आवाधानां कर्मस्थितिः कर्मस्थितिकर्मनिषेधक इति इयं संज्ञिपंचेंद्रियस्योत्कृष्टा स्थितिरेकेंद्रियस्य पुनर्मिथ्यात्वस्योत्कृष्टः स्थितिबंध एकं सागरोपमं । कषायाणां सप्त चत्वारो भागा ज्ञानावरणदर्शनावरणांतरायसातवेदनीयानामुत्कृष्टः स्थितिवंधः सागरोपमस्य त्रयः सप्त भागाः; नामगोत्रकषायाणां सागरोपमस्य द्वौ सप्तभागौ । एवं शेषाणां त्रैराशिकक्रमेणैकेंद्रियस्योत्कृष्टा स्थिति::
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338