Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याप्त्यधिकारः।
इति संज्ञा । हसनं हासो यस्य कर्मस्कंधस्योदयेन हास्यनिमित्तो जीवस्य राग उत्पद्यते तस्य हास इति संज्ञा कारणे कार्योपचारात् । रम्यतेऽनयेति रमणं वा रतिः कुत्सिते रमते येषां कर्मस्कंधानामुदयेन द्रव्यक्षेत्रकालभावेष रतिरुत्पद्यते तेषां रतिरिति संज्ञा । न रमते न रम्यते वा यया साऽरतिर्यस्य पुद्गलस्कंधस्योदयेन द्रव्यादिष्वरतिर्जायते तस्यारतिरितिसंज्ञा । शोचनं शोचयतीति वा शोकः यस्य कर्मस्कंधस्योदयेन शोकः समुत्पद्यते जीवस्य तस्य शोक इति संज्ञा । भीतिर्यस्मादिभेति वा भयं य: कर्मस्कंधैरुदयमागतैर्जीवस्य भयमुत्पद्यते तेषां भयमिति संज्ञा । जुगुप्सनं जुगुप्सा येषां कर्मस्कंधानामुदयेन द्रव्यादिषु जुगुप्सा उत्पद्यते तेषां जुगुप्सेति संज्ञा । एवं नवविधमेव नोकषायवेदनीयं ज्ञातव्यमिति । कषायवेदनीयाख्यभेदास्तूर्द्धमेतस्माच्चागमाज्ज्ञातव्या इति ॥ १९२ ॥
आयुषो नाम्नश्च प्रकृतेर्भेदान् प्रतिपादयन्नाहःणिरियाऊ तिरियाऊ माणुसदेवाण होंति आऊणी। गदिजादिसरीराणि य बंधणसंघादसंठाणा ॥ १९३॥
नारकायुः तैरश्चायुः मानुषदेवानां भवंति आयूंषि । गतिजातिशरीराणि च बंधनसंघातसंस्थानानि ॥ १९३॥ टीका-नारकादिषु संबंधत्वेनायुषो भेदव्यपदेशः क्रियते नारकेषु भवं नारकायुः, तिर्यक्षु भवं तैरश्चायुः, मनुष्येषु भवं मानुष्यायुः, देवेषु भवं दैवायुः, एवमायूंषि चत्वारि । येषां कर्मस्कंधानामुदयन जीवस्याधोगतिस्वभावेषु नरकेषु तीव्रशीतोष्णवेदनेषु दीर्घजीवनेनाधः स्थानं भवति तेषां नारकायुरिति संज्ञा, येषां पुद्गलस्कंधानामुदयेन तिर्यङ्मनुष्यदेवभवानामेव स्थानं भवति तेषां तैरश्चमानुषदैवायूंषि इति संज्ञेति । गतिर्भवः संसार; यदुदयादात्मा भातरं गच्छति सा गतिर्यदि गतिनाम कर्म न स्यात्तदाऽगति वः स्यात् । यस्मिन् जीवभावे सत्यायुःकर्मणो यथावस्थानं शरारादीनि कर्माणि
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338