Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 298
________________ पर्याप्त्यधिकारः । २९३ टीका - बंधशब्दः प्रत्येकमभिसंबध्यते । प्रकृतिबंधः, स्थितिबंधः, अनुभागबंधः, प्रदेशबंधः इति चतुर्विधो बंधो भवति । प्रकृतिबंधस्तु द्विविधः मूलस्तथोत्तरी, मूलप्रकृतिबंध उत्तरप्रकृतिबंधश्चेति । प्रकृतिः स्वभावः निवस्य का प्रकृतिस्तिक्तता गुडस्य का प्रकृतिर्मधुरता तथा ज्ञानावरणस्य का प्रकृतिरर्थानवगमः, दर्शनावरणस्यार्थानालोकनं, वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनं, दर्शनमोहस्य तत्वार्थाश्रद्धानं, चारित्रमोहस्यासंयमः, आयुषो भवधारणं, नाम्नो नरकादिनामकारणं, गोत्रस्योच्चैर्नीचैः स्थानसंशब्दनं, अंतरायस्य दानादिविघ्नकरणं । तदेव लक्षणं कार्यं प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावाप्रच्युतिः स्थितिः यथाऽजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः यथाऽजागोमहिष्यादिक्षीराणां तीव्रमंदादिभावेन रसविशेषस्तथा कर्मपुहलानां स्वगतसामर्थ्यविशेषोऽनुभवः। इयत्तावधारणं प्रदेशः कर्मभावपरिणतपुद्गलस्कंधानां परमाणुपरिच्छेदेनावधारणं प्रदेश इति । एवं चतुर्विध एव बंध इति ॥ १८४ ॥ तत्रायस्य मूलप्रकृतिबंधस्य भेददर्शनार्थमाह - णाणस्स दंसणस्स य आवरणं वेदणीय मोहणियं । आउगणामा गोदं तहंतरायं च मूलाओ ॥ १८५ ॥ ज्ञानस्य दर्शनस्य च आवरणं वेदनीयं मोहनीयं । आयुर्नाम गोत्रं तथांतरायं च मूलाः ॥ १८५ ॥ टीका - आवृणोत्या व्रियतेनेनेति वाऽऽवरणं तत्प्रत्येकमभिसंवध्यते ज्ञानस्थावरणं दर्शनस्यावरणं । वेदयति विद्यतेऽनेनेति वा वेदनीयं । मोहयति मुह्यतेऽनेनेति वा मोहनीयं । एत्यनेन नरकादिभवमित्यायुः । नमयत्यात्मानं म्यतेऽनेनेति वा नाम । उच्चैर्नीचैश्च गूयते शब्दयते इति गोत्रं । दातृदेयादीनामंतरं मध्यमे यातीत्यंतरायः । तथा तेन प्रकारेण मूला उत्तरप्रकृत्याधारभूता अष्टौ प्रकृतयो भवतीति । स एष मूलः प्रकृतिबंध इति ॥ १८५ ॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338