SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः. ह.-यानि कर्माणि द्रव्याश्रयाणि द्रव्ये प्रत्यक्षं विकारान् जनयन्ति तानि सन्निपातीनि; अवघात: पेषणं श्रपणमिति । यैस्तु द्रव्यैः [व्ये प्रत्यक्षो विकारो नोत्पद्यते तान्यसन्निपातीनि अभिमन्त्रणानुमन्त्रणजपोपस्थानावेक्षणानि । तेप्वपि सङ्ख्यायुक्तानि त कादिवद्वत्सकन्मन्त्र इत्यर्थः । “अपां क्षये” इति ग्राणामनुमन्त्रणमुदाहरणम्। तत्र सन्मन्त्रमुक्ता सर्वेषां ग्राव्णामनुमन्त्रणम् । ( भिन्नपीठानामप्यङ्गविरोधे मन्त्रा आवर्तन्ते । यथा “ सूर्यज्योतिर्विभाहि ” इति पुरोडाशाभिमन्त्रणम्' ) ॥ ४६. क्र-एकस्मिन्नपि प्रयोगे भिन्नकालेप्ववहननादिषु हवि कृदादयो मन्त्रा: आवर्तन्ते । सवनीयेषु लाजार्थं पुनर्हविष्कृदाहानमन्त्रा आवर्तन्ते । तथा ग्रयणे एकोलूखलपक्षे कालभेदात् अध्रिगुर्दैव्याश्शमितार' इति वाजपेये सारस्वतान्तानां कृतोपि सारस्वतप्रभूतीनामावर्तते । 'अनये भ्राजस्वते पुरोडाशमष्टाकपालं, 'सौर्य चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालं ' इति अनये भ्राजस्वते हवियं विहितम् । तस्य याज्यानुवाक्यायुगळं सूर्ययागविहितत्वादावर्तते । पुरोनुवाक्याग्रहणं प्रदर्शनार्थम् । स कृत्स्नो याग आवर्तते । मनोताप्यधिगुवद्वाजपेय आवर्तते । इतरेषां कालभेदेपि तन्त्रत्वमेव । वैश्वदेवे हविष्कृत्तन्त्रत्वम्। सान्नाय्ये स्विष्टकृति याज्यानुवाक्या तन्त्रेण प्रयुज्यते । अधिगुमनोता चैकादशिन्यां॥ ह.-हविष्कृदिति “हविष्कृदेहि " इत्यवहननमन्त्रोभिधीयते, अनेन हविः क्रियत इति । अध्रिगुरिति दैव्याश्शमितार:' इति । पूर्व याज्यायाः सम्प्रेषादनन्तरं योच्यते सा पुरोनुवाक्या। [( ) एवं चिह्नितं वाक्यं क. पुस्तके नास्ति.] For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy