Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 139
________________ वादन्यायः १२२] अस्ति विषयोऽप्रतिभाया इति चेत् । एवन्तयननुभाषणं निविषयमज्ञानेनाक्षेपात्। न हि विषयं सम्यक् प्रतिपद्यमानः कश्चिन्नानुभाषेतेति नाननुभाषणं पृथग्वाच्यमुत्तराज्ञानस्य चाक्षेपात् । विषयाज्ञानेनोत्तराज्ञानमप्याक्षिप्तमेव । न हि विषयमजाननत्तरञानातीति नैवाप्रतिभाया विषयोस्ति । ज्ञातेपि विषये पुनरुत्तराज्ञानमप्रतिभाया विषय इति चेत् । एवन्तर्हि विषयोत्तराज्ञानयोरपि प्रभेदान्निग्रहस्थानान्तरालवा च्यानि । यथाऽज्ञानस्य विषयो ज्ञानमुत्तराज्ञानमिति प्रभेदादसत्यपि गुणातिशये निग्रहस्थानान्तरव्यवस्था क्रियते । तथाऽज्ञानयोरपि सर्वा क्रम ( ? )ज्ञानमित्यादिप्रभेदान्निग्रहस्थानान्तराणि किन्नोच्यन्ते । न चोभयस्याप्यज्ञानस्य संग्रहवचने - दोषो गुणस्तु स्यादिति संग्रहवचनं न्याय्यं । तस्मादननुभाषणाज्ञानयोरप्रतिभाविषयत्त्वान्न पृथग्वचनं। अपि च न पूर्वोत्तरपक्षवादिनो हेत्वाभासाप्रतिभाभ्यामन्यनिग्रहस्थानं न्याय ( ? य्य ) मस्ति । तदुभयवचनेनैव सर्वमुक्तमिति । तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयमन्तरेण वचनादेऽतिप्रसङ्ग(त् )व्यर्थः प्रपञ्च इति ॥ इदमुक्तम्भवति द्विधोत्तराज्ञानविषयाज्ञानसहचरञ्च विषयज्ञानसहचरञ्च । तत्राद्यस्य विषयाज्ञाने नाक्षेपेऽप्युत्तरमनाक्षिप्तमेव ततो द्वितीयापेक्षयाप्रतिभायाः पृथगुपादानमिति । अनवस्थैव निग्रहस्थानानां प्रसज्यत इत्याह । एवन्तीत्यादि। यथेत्याद्यस्यैव विभागः । तथा ज्ञानयोरपीति विषयोत्तराज्ञानयोरपि। सर्वस्योत्तरस्य विषयस्य चाज्ञानं। आदिग्रहणेन द्वित्रिचतुर्भागाद्यवरोधः । विषयोत्तराज्ञानयोः सङग्रहवचने दोष इति चेदाह । न चेति। यथा न दोषस्तथागुणोपि नास्तीति चेदाह । गुणश्च लाघवसंज्ञः स्यादिति संग्रहवचनं न्याय्यं । अप्रतिभाविषयत्वान्न पृथग्वचनं। अप्रतिभावचनेनैवानयोः सङग्रह इत्यर्थः। न केवलमनयोरेवापृथग्वचनं । न्याय्यमपि त्वन्येषामपीत्याह । अपि चेत्यादि। तदुभयवचनेनैवेति। हेत्वाभासाप्रतिभयोरेव वचनेन सर्वप्रतिज्ञाहान्यननुभाषणाद्युक्तं। नहि कश्चिद्धचन्यस्साधनवादी प्रतिपक्षधर्ममभ्युनुजानाति प्रतिज्ञाम्वा प्रतिज्ञासाध नायोपादत्त इत्यादि वाच्यं । तदा न कञ्चि (द्) दूषणं व्यक्तमेव यन्नानुभाषते। 76a कथां विक्षिपति । परम तञ्चानुजानातीदि (?ति) वक्तव्यं । तदुभयाक्षेपेपि प्रपञ्चो गुणवानतस्तदवचनादरोमुनेरिति चेदाह। तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयम'न्तरेण । अनुपलभ्यमानत्वाद् गुणस्य प्रपञ्चवचनादरेऽतिप्रसङगात् । कक्षपिट्टिता

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194