Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 155
________________ 86a १३८] वादन्यायः विशेषतोऽनुपलब्धिः सा प्रकरणचिन्तां प्रयोजयतीति। उदाहरणमनित्यः शब्दो नित्यधर्मानुपलब्धः । अनुपलभ्यमाननित्यधर्मकमनित्यन्दृ ष्टं स्थाल्यादि । यत्र समानो धर्मः संशयकारणहेतुत्वेनोपादीयते संशयसमः सव्यभिचार एव । या तु विमर्शस्य विशेषापेक्षतोभयपक्षविशेषानुपलब्धौ सा प्रकरणम्प्रवर्तयति । यथा च शब्दे नित्यधर्मो नोपलभ्यते तथानित्यधर्मोपि । सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्ताम्प्रयोजयति कम्विपर्यये प्रकरणनिवृत्तेः । यदि नित्यधर्मः शब्दे गृहचेत न स्यात्प्रकरणं । यदि (न) नित्यधर्मो गृहयेत एवमपि निवर्त्तते प्रकरणं । सोयं हेतुरुभौ पक्षौ प्रवर्तयन्नान्यतरस्य निर्णयाय कल्प्यत इति । न त्वयं साध्याविशिष्ट एव। नाविशिष्टः। तस्यैव प्रकरणप्रवृत्तिहेतोर्द्धर्मस्य हेतुत्वेनोपादानात्। यत्र साध्येन समानो धर्मों हेतुत्वेनोपादीयते स साध्याविशिष्टः। यत्र पुनः प्रकरणप्रवत्तिहेतुरेव स प्रकरणसम इति । अत्रापि नित्यानित्यधर्मानपलम्भद्वयादेव प्रकरणचिन्ता। न त्वेकस्मात। विपर्यये प्रकरणनिवत्तिरिति वचनात । तद्यदि नित्यानित्यधर्मानपलब्धेरिति हेत. स्यात। स्यात प्रकरणसमः। तदेकधर्मान'पलब्धस्तूपादाने कथं प्रकरणसम इत्यभिधानीयं । उभयधर्मानुपलम्भोपादानेपि सपक्षविपक्षयोरनुवृत्तिव्यावृत्योरनिश्चयादसाधरणानकान्तिको' भवतीति कथमस्य हेत्वा (भा)सान्तरत्वं । भवत नामैकधर्मानपलब्धिरेव हेतः प्रकरणसमः । तथापि नित्यशब्दवाद्यवश्यमेव व्यामोहान्नित्यधर्मान प्रतिपद्यत इति प्रतिवाद्यसिद्धीयं भवति। अथ प्रमाणेन नित्यधर्मप्रतिक्षेपान्नित्यधर्मानुपलब्धिः प्रतिपाद्यते। तदापि निश्चायकत्वात सम्यगज्ञानहेतरवायं इति कथं हेत्वाभासः प्रकरणसमः। तदा हि विशेषोपलब्धिरेव हेत्वर्थो व्यवतिष्ठते। विशेषाश्च नित्यस्य कृतकत्वादयः। न च तत्कृता प्रकरणचिन्ता विपर्यये प्रकरणनिवृत्तरिति वचनात् । अपि च नित्यधर्मानपलब्धेरिति किमयं प्रसज्यप्रतिषेधः किम्वा प्रतियोगिविधानं (1) यदि प्रसज्यप्रतिषेधस्तदा प्रमेयत्वादिवत् साधारणानकान्तिकोयं नित्यधर्मोपलब्धिः प्रतिषेधमात्रस्यानित्यत्वरहितेष्वसत्स्वपि सम्भवात् । अथ प्रतियोगिविधानन्तदाप्यनन्तरों'दितया युक्त्या हेतुप्रतिरूपत्वायोगः। अन्यस्त्वन्यथेदं सूत्रद्वयं व्याचष्टे । यो हेतुर्हेतुकालेऽपदिष्टोऽत्येत्यपैति । कस्मादपति । प्रत्यक्षेणागमेन उभयेन वा पीड्यमानः स कालमतीत इति कालातीत इत्युच्यते । कुतः पुनः प्रत्यक्षागमविरोधो लभ्यत इति चेत् । चतुर्लक्षणो हेतुरिति वचनात् । तथाहि 86b पूर्ववच्छेष वत्सामान्यतो दृष्ट (न्या० सू० १।२।५)ञ्चेत्यत्र चतूरूपो हेतु रिष्टः । पूर्ववन्नाम साध्ये व्यापकं । शेषवदिति तत्समास्ति । सामान्यतश्च दृष्टञ्च शब्दादविरुद्धञ्चेति। तथा भाष्यवचनमप्यस्ति ।' “यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स" इति। तदेवं त्ररूप्ये सति प्रत्यक्षागमाभ्यां यो वाध्यते

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194