Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 156
________________ २ - न्यायमतखंडनम् दास्तथैवाहो( स्वि )दन्यथै (वे )ति । तत्ते चिन्त्यमानमिहातिप्रसज्यत [ १३९ स कालात्ययापदिष्टः । स च त्रिधा भिद्यते प्रत्यक्षविरुद्ध आ' गमविरुद्ध उभयविरुद्धश्चेति ( 1 ) प्रत्यक्षविरुद्धो यथा अनुष्णोग्निर्द्रव्यत्वादुदकवत् । आगमविरुद्धो यथा ब्राह्मणेन सुरा पातव्या द्रवत्वात् क्षीरवत् । उभयविरुद्धो यथा रश्मिवच्चक्षुरिन्द्रियत्वाद् घ्राणादिवदिति । न चायं किल पक्षविरोधः पक्षविरोधस्य प्रतिक्षेपादिति । तदेतत् त्रैरूप्यलक्षणानववोधवैशद्यं (1) त्रैरूप्यं हि यदा स्वं प्रमाणैः परिनिश्चितं पक्षधर्मत्वादिकं त्रयं च यत्र बाधा तत्र प्रतिबन्धोस्ति । बाधाविनाभावयोविरोधात् । अविनाभावो हि सत्येव साध्यधर्मे हेतोर्भावः कथञ्चासौ तल्लक्षणो धर्मिणि हेतुः स्यान्न चात्र साध्यधर्म इत्यादिकमत्राबाधितविषयत्वदूषणानुसारेण वक्तव्यं । यत्र पुनरियं बाधोदाहृता न तेषां त्रैलक्षण्यं मनागप्यस्ति प्रतिबन्धवैकल्यात् । अभ्युपगतपक्षप्रयोगस्य च पक्षदोष एवायं युक्तः । यत्पुनः पक्षदोषत्वपरिहाराय बह्वसम्बद्धमुग्राहि' तं तदत्यन्तमसारमिति नेहावसीयते ॥ ० ॥ यस्मात्प्रकरणचिन्तेति प्रकरणं भाष्ये निरूपितं । तस्योदाहरणं । अणुरण्वन्तरकार्यत्वं प्रतिपद्यते नवेति चिन्तायाङकश्चिदभिधत्ते । अणुरण्वन्तरकार्यो रूपादिमत्वात् तद्व्यणुकादिवदिति । योसावणोरणुः कारणत्वेनोपादीयते तत्रापि रूपादिमत्वमस्तीति चिन्ता किमियं रूपादिमत्वादण्वन्तरकार्यो न वेति चिन्ता- 87a याञ्च यदि तस्याप्यण्वन्तरकार्यत्वं रूपादिमत्वादिति वक्ति तदा तस्यापि रूपादिमत्वमस्तीति पुनरपि चिन्ता' तदेवमनवस्थारूपं प्रकरणं प्रवर्त्तयतीति प्रकरणसम इत्युच्यते । अथाणुरण्वन्तरकार्यत्वं न प्रतिपद्यते रूपादिमत्वे सति तदानैकान्तिको हेतुरिति तस्माद् भिद्यतेऽनैकान्तिकात् प्रकरणसमः । न चायविरुद्धोऽविपर्ययसाधकत्वात् । नासिद्धः पक्षधर्मत्वदर्शनात् । न कालात्ययापदिष्टः प्रत्यक्षागमाभ्यामबाध्यमानत्वात् । अतोऽर्थान्तरमिति । अथवा प्रदेशे करणं प्रकरणञ्चेति कारणसिद्धिरित्यर्थः । प्रदेशे सिद्धिरितीयं चिन्ता यस्माद्धेतोरपदिष्टा भवति स प्रकरणसम: * स प्रदेशसाधकत्वात् समः । यथैकदेशेऽसाधकत्वन्तथेतरत्रापीत्यसाधकत्वसामान्यात् समः। तस्मादेकदेशवर्त्ती धर्मः प्रकरणसमः । तद्यथा पृथिव्यप्तेजोवा य्वाकाशान्यनित्यानि सत्तावत्वादिति । अत्रापि यद्यक्षपादमतानुसारी तावदेवं प्रमाणयति । परमाणुः परमाण्वन्तरपूर्व्वको रूपादिमत्वाद् द्वयणुकादिवदिति तदा तस्याभ्युपेतविरोध इति नायमतीतकालाद् भिद्यते । अथ बौद्धः करोति । तदापि हेतोरसिद्धिः परमाणूनां रूपादिव्यतिरेकेणानभ्युपगमात् । अयोगाच्च' द्वयदीनाञ्चाभावादुभयविकलो दृष्टान्तः । यदाप्यनपेक्षितसिद्धान्तो न्यायवादी ब्रूते तदापि १८

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194