Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 137
________________ बादन्यायः १२०] अविज्ञातमज्ञानं (न्याय ५।२।१७ ) । “विज्ञातं पर्षदा प्रतिवादिना यदविज्ञातं तदज्ञानं नाम निग्रहस्थानमर्थे खल्वविज्ञाते न तस्य प्रतिषेधं ब्रूयादिति । एतदप्यननुभाषणवदति तत्रैव गम्यत्त्वादवाच्यं । यथाऽननुभाषणेऽप्रदर्शितविषयत्वादुत्तरप्रतिपत्तिरशक्येति (1) अनुत्त(र)प्रतिपत्त्यैव निग्रहस्थानत्वमुत्तरविषयप्रदर्शनप्रसङ्ग मन्तरेणानुभाषणस्य अविज्ञातञ्चाज्ञान (न्या० सू० ५।२।१७) मिति भावे निष्ठाविधानात् साधनवाक्यार्थापरिज्ञानं निग्रहस्थानं। तत एव भाष्ये टीकाकृतो विवृण्वन्ति वाक्यार्थविषयस्य विज्ञानस्यानुत्पत्तिरज्ञानमिति । अस्तु वा कर्मण्येव निष्ठाविधानं तथापि वाक्यार्थविषयज्ञानानुत्पत्या विशेषि तं वादिप्रयुक्तं वाक्यमेव प्रतिवादिनो निग्रहस्थान मिति न किञ्चिद्वचाहन्यते। अन्ये पुनर्विवरणर्थग्रहणं पश्यन्तः सूत्रेप्यर्थग्रहणं भ्रान्त्या पठन्ति । अविज्ञातार्थञ्चाज्ञानमिति सोऽन्येषां पाठः। विज्ञा तार्थ साधनवाक्यं परिषदा तस्य प्रतिवादिना यदविज्ञातमनवबोधस्तदज्ञान74b मित्येवं भावपक्षेऽक्षरविन्यासः। कर्मपक्षे तु तस्येति नाध्याहर्तव्यमेकवाक्यतयैव तु व्याख्यातं। विज्ञातं पर्षदेति किमर्थ पर्षदाप्यविज्ञाते वादिन एवाविज्ञातार्थ निग्रहस्थानं भवतीति ज्ञापनाय। निग्रहस्थानत्वे कारणमाह । अर्थे खल्व'विज्ञाते प्रतिबादी न तस्य प्रतिषेधं ब्रूयादिति । अपरे तूत्तरेण दूषणग्रन्थेन सहैतत् सम्बध्नन्ति तच्चायुक्तं भाष्यवार्तिकग्रन्थत्वादस्य। गम्यत्वमेव साधयति यथाऽननुभाषणेऽनुत्तरप्रतिपत्यैव निग्रहस्थानत्वं कथमुत्तराप्रतिपत्तिरित्याह। अप्रदर्शितविषयत्वात्प्रतिवादिनोत्तरप्रतिपत्तिरशक्येति कृत्वाप्रदर्शितो विषयो येनेति विज्ञेयं विशेषणसमासो वा। तथाहि दूषणस्य विषयख्यापनार्थमनुभाषते तञ्च परित्यज्य यद्यदेव वा दिनाऽनुद्ग्राहितमालजालमनुभाषते । तदानीमुत्तरविषयप्रदर्शनप्रसङगमन्तरेण तथाभूतस्यानुभाषणस्य वैयादशक्येतिवर्तते। अनुग्रहप्रतिपत्यैव निग्रहस्थानत्वमिति वा। दार्टान्तिकमुपसंहरति। तथा ज्ञानेऽप्युतराप्रतिपत्यैव निग्रहस्थानत्वमिति । यस्मादजानन् प्रतिवादिदूषणतद्विषयौ कथमुत्तरविषयञ्च ब्रूयात् । उत्तरविषयो दूष्यः। क्वचित्तु पाठः। कथमुत्तरमुत्तरविषयञ्चोतरमिति। अत्रैवं यदसम्बन्धिः। अजाननुत्तरविषयञ्च कथमुत्तरम्ब्यादिति। तस्माद्विषयाज्ञानमुतराज्ञानञ्च निग्रहस्थानमप्रतिभयव गम्यत्वात् । अवाच्यमिति वर्तते किं कारणमन्यथैवमनिष्प्रमाणे सत्यप्रतिभाया निविषयत्वात् । कथं निविषयत्वमित्याह। १अविज्ञानं चाज्ञानम्--इति न्या० भा० पाठः।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194