Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 153
________________ वादन्यायः १३६] स्यासिद्धस्य हेतोरभिधाना देव निग्रहो नापि नियमात्कथाप्रसङ्गादिति । इदमपि हेत्वाभासेष्वन्तर्भावान्न पृथग्वाच्यं ॥ त् ॥ हेत्वाभासाश्च यथोक्ताः (न्या० ५।२।२४) । हेत्वाभासाश्च निग्रहस्थानानि किम्पुनर्लक्षणान्तरयोगाद्धत्वाभासा निग्रहस्थानभावमापद्यन्ते । यथा प्रमाणानि प्रमेयत्वमित्यत आह । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानता च इति । अत्रापि यथोक्तत्त्वादिद (?) मेव किन्ते यथालक्षितप्रभे हेत्वाभासाश्च यथोक्ता इति सूत्रं । इदमाक्षेपपूर्वकं वात्स्यायनो व्याचष्टे । किं । पुनरिति (20a6) हेत्वाभासलक्षणाद्यदन्यल्लक्षणं तेन सम्बन्धा निग्रहस्थानत्वमापद्यन्ते। किमिवेत्याह । यथा प्रमाणानि प्रमेयत्त्वं लक्षणान्तरवसा [? वसादापद्यन्त (20a6) इति वर्त्तते तानि हिप्रमिति क्रियाया (:) कारणत्वात्। प्रमाणानि प्रमाणान्तरेण तु यदा प्रमीयन्ते तदा कर्मत्वात प्रमेयानि । तत एव पदार्थत्वात् प्राप्तःसंशयः। अत्राह मुनिना यथोक्त इति । अस्यैव विवरणं । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति। इदमुक्तम्भवति। सव्यभिचारविरुद्धप्रकरणस (म) साध्यसमातीतकाला (न्या० सू०१।२।४) इति हेत्वाभासा इति प्रभेदमुपक्रम्य यत्प्रत्येकं लक्षणमुक्तं । अनैकान्तिक: सव्यभिचारः (न्या० सू०१।२।५) सिद्धान्तमभ्युपेत्य तद्विरोधाद्विरुद्धं (न्या० सू०१।२।६)। यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्ट: प्रकरण समः (न्या० स० श१७) साध्याविशिष्टः साध्यत्वात साध्यसमः (न्या० स० शश८) कालात्ययापदिष्ट: कालातीत (न्या० सू० १।२।९) इति तेनैव लक्षणेनैषान्निग्रहस्थानत्त्वं न पुनस्तत लक्षणान्तरमपेक्ष्यत इति। अत्रापी (20a7)त्याचार्यः। कथञ्चिन्त्यमित्याह। किन्ते यथा भवद्भिर्लक्षितप्रभेदास्तथैव ते भवन्त्याहो स्विदन्यथेति (20a7)। लक्षितः प्रभेदो येषामिति विग्रहः। तत्तहि किन्त (द्) 84b चिन्त्यत इत्याह तत्तु चिन्त्यमानमिहातिप्रसज्यत इति न प्रतन्यते। इदमेवागरितं । विदन्त्येव केचिदत्र हेत्वाभासा एव न युज्यंते केचित्तु हेत्वाभासा अपि न सङग्रहीता इयस्मिश्च विचारे हेत्वाभास वार्तिकं सकलमवतारयितव्यमिति शास्त्रान्तरमेव भवेत् । अवदातमतयस्त्वस्मद्विहितहेत्वाभासलक्षणविपर्ययेण दूरान्तरत्वात्तद् वैसशं(?)। तस्मादुपेक्ष व युज्यत इति । तथापि मन्दमतिविबोधनायापि शास्त्रमुच्यत इति । कालातीतप्रकरणसमयोस्तावद्धत्वाभासत्वं यथा नोपपद्यते तथा वर्ण्यते। तत्र कालात्ययापदिष्ट: कलातीतः तदिह यकानामपास्य मतमाचार्यदिङनागपादर्भाषितत्वादिदानीन्तना वात्स्यायनादयोमुमेव स्थिपक्षमाहुः । तत्रैवम्बूमः। कालात्ययेन युक्तो यस्यार्थंकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194