Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 149
________________ १३२] . वादन्यायः २३)। कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात्कथाप्रसङ्ग कुर्वतो ऽपसिद्धान्तो विज्ञेयः । यथा न सतो विनाशो नासदुत्पद्यत इति सिद्धान्तम भ्युपेत्त्य पक्षमवस्थापयति । एकान्त(1) प्रकृतिय॑क्ताव्यक्तविकाराणामनुपदर्शनात् । मृदर्थपान] शरावादीनां दृष्टमेकप्रकृतिकत्त्वं तथा चायं व्यक्तभेदः । सुखदुःखमोहसमन्वितो गृह्यते तत्सुखादिभिरेकप्रकृतिरिति । स एवमुक्तवान् पर्यनुयुज्यते । अथ प्रकृतिर्विकार इति कथं लक्षयितव्यं (1) यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्त्तते सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङगोऽपसिद्धान्त इति (19br) सूत्रं सिद्धान्तमभ्युपेत्य पक्षपरिग्रहं कृत्वाऽनियमात् पूर्वप्रकृतार्थोपरोधेन शास्त्रव्यवस्थामनादृत्येति यावत् । कथाप्रसङगोऽर्थान्तरोपवर्णनं । कस्यचिदर्थस्येति धर्मिणो धर्मान्तरं प्रतिज्ञाय प्रतिज्ञातार्थ विपर्ययो विरोधः। इदं उदाहरणेन स्पष्टयति । यथा न सतो वस्तुनो विनाशो (19b2) निरन्वयः केवलं तिरोभावमानं भवति नासत् खरविषाणतुल्यमुत्पद्यते। किन्तहर्याविर्भावतः । सदेवोत्पद्यत इत्येवं कापिल: सिद्धान्तव्यवस्थामादर्श्य पक्षङकरोति । एका प्रकृतिय॑क्तस्याव्यक्तलक्षणा। व्यक्तस्येति महदादेः। अत्र हेतुमाह विकाराणां शब्दादीनामन्वयदर्शनात् । मृदन्वयानामित्यादिदृष्टान्तः। तथा चायमित्युपनयनः [? पनयः] । सुखदुःखमोहसमन्वित (19b3) इति सुखादिमयत्वं दर्शयति । दर्शितञ्च सुखादिमयत्वं व्यक्तस्य पूर्व यथासांख्येनाभिमतं । तत्तस्मात् सुखादिभिरेकप्रकृतिरित्ययं व्यक्तभेदः । इति निगमनं सुखादि भिरितीत्थंभूतलक्षणे तृतीया। सुखादिप्रकारा सुखादिलक्षणा। एका प्रकृतिरस्य82a त्यर्थः। अन्ये पठन्ति । एका प्रकृतिळक्ता व्यक्तविकाराणामन्वयदर्शनादिति। एवञ्च व्याचक्षते। एका प्रकृतिरभिन्ना सर्वात्मस्वभावा व्यक्ताव्यक्तविकाराणामन्वयदर्शनात्। ये व्यक्ता विकारा महदादयो ये चाव्यक्ताः प्रधानात्मनि व्यवस्थितास्तेषा'मप्यन्वयदर्शनादिति । अपरे तु पठन्ति । एका प्रकृतिरव्यक्ता। व्यक्तविकाराणामिति व्यक्तरूपाणां विकाराणामिति चाहुः। प्रकृतार्थविपर्य (ये)णेयं यथा प्रवृत्तेति प्रदर्शनाऽर्थमाह (1) स कापिल एवमुक्तवान्पर्यनुयुज्यते (19b4)। अथ प्रकृतिविकार इत्येतदुभयङकथं लक्षयितव्यं । प्रतिपत्तव्यमिति । स एवमनुयुक्तः प्राह । यस्यावस्थितस्य धर्मान्तरनि वृत्तौ धर्मान्तरम्प्रवर्तते सा प्रकृतिरवस्थितरूपा। यत्तत्प्रवृत्तिनिवृत्तिसद्धर्मान्तरं स विकार इति लक्षयितव्यं । परमुक्तवान् साङख्यः प्रकृतार्थपरित्यागदोषेणोपपाद्यते । सोयम्वादी प्रकृतार्थविपर्ययादनियमात् कथाम्प्रसञ्जयति। पूर्वप्रकृतं परित्यजतीत्यर्थः । कथमित्याह

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194