Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 143
________________ १२६] वादन्यायः हेत्वाभासान्तर्भावः । असमर्थितसाधनाभिधान एवमुक्तमनभिधानान्याभिधान योरपि पराजय एवेत्युक्तमभ्युपगम्य वादमसाधनाङ्गवचनात् । एतेनाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेवचनस्य च निग्रहस्थानत्वं व्याख्यातं तदपि हि प्रतिपादितार्थविपर्ययत्वात्साधनसामर्थ्य स्वपक्षो नास्ति विवादस्तहि कथमिति वक्तव्यं । परपक्षप्रतिषेधार्थम्वैतण्डिकः प्रवर्तत इति चेत् । परपक्षप्रतिषेध एव तहर्यस्य' स्वपक्षस्थापनेति वितण्डालक्षणं विशीर्यते। तथा हि यो येनाभ्युपगतः स तस्य स्वपक्षः। परपक्षप्रतिषेधश्च तेनाभ्युपगतः स्वपक्षतां नातिवर्तत इति । यदा तहर्युपगम्य वादं प्रतिज्ञामात्रेण विफलतया परिषच्छारद्येन व्याकुलीकृतत्त्वादित्यर्थः। न किञ्चित् साधनं तदायासं वा वक्ति। 78a अन्यद्वा किञ्चित् प्रलपति । साधनतदाभासव्यतिरिक्तं काको विरूपं विरौति नूनमयं मे गेहे विपदं सूचयति तदलमनेन विवादेन । यामि तावद् गेहे किन्नु मे पितुमरणमन्यद्वा वर्त्तत इत्यादि । तथा कथं हेत्वाभासान्तर्भावः। साधनाभावाद्धत्वाभासासम्भवं मन्यते। उत्तराप्रतिपत्तिरपि नास्त्येव पूर्वपक्षवादित्वादित्यभिप्रायः। तदनेन द्वयन्नातिपतती त्येतद्विघटयितुमिच्छति परः। आचार्य आह। असमर्थितसाघनाभिधान एवमुक्तं द्वयं नातिपततीति प्रोक्तसाधन एतदुक्तमिति यावत्। अप्रोक्ते तु कथं प्रतिपत्त व्यमित्याह । अनभिधानान्यभिधानयोरपि सतोः पराजयः एवेत्युक्तं प्रकरणावतार एव। तदेव स्मरयति । अभ्युपगम्यवादमसाधनाङगवचनादिति । तथाहि तत्र व्याख्यातं। साधनाङगस्यानुच्चारणं। साधनाङगाद्वा यदन्यस्याभिधानं तत्सर्वमसाधनाङगवचनमिति। एतेनेत्यन्याभिधानेन पराजयवचने नाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य च निग्रहस्थानत्वं व्याख्यातं । कथमित्याह। तदपि हीत्यादि। अनेनैतदाह । यद्युक्तियुक्तमक्षपादेन किञ्चि निग्रहस्थानमुक्तन्तदस्माभिरसाधनाङगवचनपदेनैव संगृहीतमिति यद्येवं प्रतिज्ञादेवचनस्य चेति किमर्थयक्तन्नहि प्रतिज्ञोपनयनिगमनानां वचनन्निग्रहस्थानमक्षपादेनोक्तं। प्रत्युत तदवचनमेव निग्रहस्थानतया। यदिष्टं हीनमन्यतमेनाप्यवयवेन न्यून (न्या० सू० ५।२।१२)मिति । एवं तहि दृष्टान्तार्थमेतद्यथा तस्याप्रतीत प्रत्यायनशक्तिविकलत्वादसाधनाङगवचनपदेनाभिधानं। तथाधिकपुनर्वचनयो78b रपीति । तत.एव च द्वितीयश्चकार इव शब्दार्थे वर्तते । अन्यथा पुनरुक्तस्य चेत्ययं बोध्यर्थः स्यात्। केचित्तूत्तरञ्चकारन पठन्ति । तैः पुनरुक्तव्याख्यानमेव प्रतिज्ञादेर्वचनस्य चेत्येतद् व्याख्येयं । एवमपि न युक्तमक्षपादेनैवम्विधस्य पुनरुक्तस्यानिष्टत्वान्नास्ति दोषः। पूर्वतुल्यधर्मतयाऽस्यापि पुनरुक्तेऽन्तर्भावितत्वात् ॥०॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194