Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 144
________________ २-न्यायमतखंडनम् विधानमप्रतीतप्रत्ययतया न लक्षणात साधनस्यासाधनाङ्गवचनमिति निग्रहस्थानमिति । [ १२७ स्वपक्षदोषाभ्युपगमात्परपक्षे तं दोषं प्रसज्जाय मतानुज्ञा 3 (न्या० ५।२।२० ) ( । ) यः परेण चोदितं दोषमनुद्धृत्य भवतोप्ययं दोष इति ब्रवीति यथा भवांश्चौरः पुरुषत्वादिति उक्ते स तं प्रति ब्रूयाद्भवापीति । स स्वपक्षे दोषाभ्युपगमात्पर* पक्षे तं दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा निग्रहस्थानमिति (1) अत्रापि यदि पुरुषत्वाच्चौरो भवानपि स्यान्न च भवता नैवमिष्टस्तस्मान्नायं चौर्यहे 'तुरिति यद्ययमभिप्रायः । तदा न क दोषोनभिमते तदात्मनि चौरत्त्वेन हेतुदर्शने दूषणात् । स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङगो मतानुज्ञा ( न्या० सू० ५।२।२० ) (18b3) दोषपरिहारे वक्तव्ये दोषस्यापरिज्ञानात् परमतमनुजानात्यतो निगृहयते । तदाह परेण वादिना चोदितं पर्यनुयुक्तं दोषमनुवृत्या परिहृत्य भवतोप्ययं दोष इति ब्रवीति । यथा भवांश्चौरः पुरुषत्वा (16b4) च्छवरादि (वदि) त्युक्ते वादिना स प्रतिवादी तं वादिनं प्रतिब्रूयात् । भवानपि चौर इति सोपि शब्दप्रयोगादात्मनश्चौर' त्वमभ्युपगम्य परपक्षे तन्दोषमासञ्जयन्नापादयत्यपरेण वादिना यन्मतं प्रतिवादिनश्चौरत्त्वं तदनुजानाति । तथा हि ते न मुक्त संस [ ? श] यन्तावदात्मन' श्चौरत्त्वं प्रतिपत्तुमन्यथा नापि तमभिदध्यात् । वादिनि तु तदस्तिनास्तीति चिन्त्यमतो मतानुज्ञा निग्रहस्थानं । इदमाचार्यो निराकरोति । अत्रापि (18b5) यद्ययमभिप्राय उत्तरवादिनः पुरुषत्वाच्चौरो भवानपि स्यादहमिव । न च भवतात्मैवं चौरत्वेनेष्टस्तन्नायं पुरुषत्वादिति चौर्ये साध्ये हेतुरचौंरेपि भव' ति विपक्षभूते वृत्तेरनैकान्तिकदोषदुष्टत्वादिति । तदस्मिन्प्रतिवादिनोऽभिप्राये न कश्चित्तस्य दोषो मतानुज्ञालक्षणोऽन्यो वा । कस्मादनभिमते चौरत्वे न रूपेण तस्य वादिन आत्मनि विपक्षभूते हेतोः सत्वप्रदर्शनेन प्रकारेण दूषणात् । विदग्धभङ्गाव्यभिचारोद्भावनादिति यावत् । औद्योतकरं * चोद्यमाशङ्कते' 79a प्रसङ्गमन्तरेण भवानपि स्यादित्येवमाञ्जसेनैव मृजुनैव क्रमेण किन्न व्यभिचारितो हेतुस्त्वय्यपि अचौरे वर्त्तते पुरुषत्वमतोऽनैकान्तिकत्वमिति । तस्माद्यत' एवासावकौटिल्ये कर्तव्ये कौटिल्यमाचरति तत एव निगृहयत इति । 9 'निग्रहस्थानप्राप्तस्यानिग्रहः -- इति न्या० भा० पाठः । * न्यायवार्त्तिके ५।२।२१ ( पृष्ठ ५५९ )

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194