Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 152
________________ २-न्यायमतखंडनम् [१३५ तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति । सोऽनुपसंहृत्य साधनदोषकथां प्रतारयन् स्वदोषं परत्रोपक्षिपति । अयमेव दोषोऽनेन प्रकारेणोच्यत इति चेत् । एष नैमित्त [ ? त्ति ]कानां विषयो न लोकः शब्दैरप्रतिपादितमर्थ प्रतिपत्तुं समर्थ इति । स एवायं भण्डालेख्यधि[ ? भण्डालेख्य ] न्यायः । अत्रापि यथोक्तन न्यायेन पूर्वकस्यासाधनाङ्ग ति व्यक्तस्य लक्षणं प्रवृत्तिनिवृत्तिधर्मकत्वं तस्य तद्विपरीतः। सुखादिभिः परस्परपरिहारस्थितिलक्षणो विरोधः। तथा च साधनन्न सदावस्थितरूपसुखादिस्वभावमिदं ते व्यक्तं प्राप्नोति तद्विपरीतधर्मत्वात् । क्षेत्रज्ञवत् न च सुखादिव्यक्तयोरेक- 83b स्वभावता। परस्परविरुद्धधर्माध्यासितत्वात् । सत्त्वरजस्तमसामिव चैतन्यानामिव वा। एवञ्च व्यक्तस्य सुखादिस्वभावतायोगे सुखाद्यन्वयदर्शन सिद्धो हेतुः । कस्मादिदं सम्बद्धं दूषणमित्याह । एवं हि तस्य साङख्यस्य साधनदोषोद्भावनेन हेत्वसिद्धताचोदनेनैकप्रकृतीदं व्यक्तमित्ययं पक्षो दूषितो भवनि (20a3)। स पुनर्नैयायिकः साधने दोषमसिद्धताख्यमनुपसंहृत्यापदर्य अप्रकृतप्रकृतिविकारलक्षणपर्यनुयोगेन कथां प्रतानयत्यविमुञ्चं स्वदोषमन्यमात्कथा प्रसङगं परत्र साङख्ये तपस्विन्युपक्षिपति। पर आहायमेवासिद्धताख्यो दोषोनेन प्रकारेण प्रकृतिविकारलक्षणपर्यनुयोगद्वारेणास्माभिरप्युच्यत इति । आचार्य आह। एष नैमित्तिकानां (20a3) ज्योतिर्ज्ञानविदां विषयः। नायं त्वदुक्तस्य वाक्यस्यार्थ इति यावत् । यतो न लोकः शब्दरप्रतिपादितमर्थ प्रति पत्तुं समर्थः अर्थप्रकरणादिभिविनेत्यध्याहारः । तस्मात् स एवायं (20a4) प्रतिज्ञाविरोधप्रस्तावे निर्दिष्टो भण्डालेख्यन्यायोत्राप्यपसिद्धान्तो न केवलं तत्रेत्यऽपि शब्दः। यथा हि भण्डाः प्राकृतान् विस्मापयन्तः शीघूमर्द्धचन्द्रा. कारामल्पीयसी रेखामालिख्य भणन्ति पश्यत तालमात्रेण हस्ती विलिखितोस्माभिरिति तत्र केचित् मन्दमतयस्तथैव प्रतिपद्यन्ते। केचिद् दुर्विदग्धधियः पर्यनुयुञ्जते। ननु नोस्य कर्णपाददन्तादयः प्रतीयन्ते तत्कथमयन्तद्विकलो हस्ती भवतीति । ते पु नराहु ः। सत्यं न प्रतीयन्ते। अस्माभिस्तु समाप्तसकलकलः करेणुरयं लिखितः । तास्तस्य सकलाः कलाः सलिल इव मग्नत्वानोपलभ[?भ्यन्ते कुम्भकदेशमात्रन्त्विदमस्योप लभ्यत इति तथाजातीयकमेतत् परस्यापि धाष्टर्यविजृम्भितं। यदि 84a नाम नायमर्थोस्माद् बाहयात् प्रतीयते तथाप्यनेन प्रकारेणोच्यत इति । अपि चोच्यताम'यमेवार्थोनेन प्रकारेण तथाप्यसिद्धस्य हेत्वाभासेष्वन्तर्भावात् तद्वचनेनैवाभिधानमिति नापसिद्धान्तः पथगुपादेयो भवेदित्येतदुपसंहारव्याजेनाह। यथोक्तेन न्यायेने (20a4)त्यादि ॥०॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194