Book Title: Shatarth Vivaranam Author(s): Labhsagar Publisher: Agamoddharak Granthmala View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनेन्द्रो विजयतेतराम् । आगमोद्धारक आचार्यप्रवरश्रीआनन्दसागरसूरीश्वरसद्गुरूभ्यो नमः । कविवर पं० श्रीमानसागरगणिकृतं शतार्थविवरणम् । प्रणम्य परमप्रीत्या पञ्च श्रीपरमेष्ठिनः । परिग्रहारम्भमग्ना इतिश्लोकं विवृण्महे ||१|| प्राचीनार्व्वाचीनाचार्यचक्रचक्रवर्तिभिः श्रीमत्तपागच्छाधिराजैः महामहीपतिवितीर्णविस्तीर्णसन्मानैः श्रीहीरविजयसूरिभिः शतार्थपरीक्षाकृते समापतस्य श्रीयोगशास्त्रद्वितीयप्रकाशस्य द्वादशस्य श्लोकस्य शतार्थीक्रियते । तत्र तावच्चतुर्विंशतिजिना वर्ण्यन्ते । परिहारम्भ ! मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न ! परमीश्वरीकर्तुमीश्वरः ||१|| व्याख्या- 'हंभारंभे गो' रितिनाममालावचनात् आ - समन्तात् रम्भा-गोशद्वो यत्र सः आरम्भः गौरित्यर्थः । परिग्रहवत् - परिवारवत् परिग्रहे - प्रतिमापरिकरे वा आरम्भो - गौर्यस्य सः परिग्रहारम्भः, समर्थविशेषणत्वादादिदेव इत्यर्थः । तस्य सम्बोधनं हे परिप्रहारम्भहे आदिदेव ! वृषभलाञ्छनत्वात् । 'इ' इत्यामन्त्रणेऽव्ययः । त्वं परान्-अन्यान् तारय संसारान्निस्तारयेत्यर्थः । परान् किंविशिष्टान् ? For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 120