Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
वतीयः परिच्छेदः ।
२०४
पमायतेयतेऽप्यभूत् मुख्याय तेऽयते क्षयम् ॥३६॥
सभासु राजन्नसुराहतैर्मुखैः महौसुराचां वसुराजितैः स्तुताः । न भासुराः यान्ति सुरान् नते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ४० ॥ तव प्रियाऽसच्चरित ! प्रमत्त ! या
विभूषणं धाय॑मिहांशुमत् तया। उत्तरः काल आयतिरित्यमरः। हे खिरायते ! निश्चन्नचित्त ! इत्यर्थः भवान् यतेन्द्रियः जितेन्द्रियः अत: यंते: संयसात् न होयते च्युतो भवति, ते तव अमायता प्रमायित्व मायाराहित्यमित्यर्थः इयते एतत्यरिमाणाय वयं नाशम् अयते अगच्छते अक्षयाय इत्यर्थः सुखाय अपि चभूत्। अत्र सर्वेषु पादेषु मिश्रमव्यवहितं व्यवहितञ्च मध्यभागबमकम् ॥ ३८ ॥
सभाखिति। हे राजन् ! मौसुराणां भूदेवानां ब्राह्मथानाम् असुराहतैः सुरापानेन महतैः अनाशितैः पवित्रैरिति यावत् वसुना तेजसा भवद्दत्तधनलाभेन वा राजितैः शोभितैः प्रफुल्लैर्वा मुखैः समासु स्तुताः कीर्तिताः भासुराः समुज्ज्वला: तथा रागात्मसु अनुरागपरासु प्रजासु राशितां बहुलौभावं गताः ते तव गुणाः सुरान् देवान् न यान्ति न प्राप्नुवन्ति, सुरा अपि एतादृम्गुणवन्तो न सन्तीति भावः । अत्र सर्वेषु पादेषु मित्रं व्यपेतच मध्यभागयमकम् ॥ ४० ॥
तवेति। हे असञ्चरित ! धूतं ! हे प्रमत्त ! अनवहित ! या तव प्रिया, त्वया प्रेमास्पदत्वेन कोय॑माना इत्यर्थः तया

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286