Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 244
________________ २३८ काव्यादर्श नयनानन्दजनने नक्षत्रगणशालिनि । अपने गगने दृष्टिरङ्गने ! दीयतां सकृत् ॥८८॥ पलिनीलालकलतं के न हन्ति घनस्तनि ।। पाननं नलिनच्छायनयनं शशिकान्ति ते ॥८॥ अनङ्गलङ्घनालग्ननानातका सदङ्गना। सदानघ । सदानन्दनताङ्गासङ्गसङ्गतः ॥ ६ ॥ मेति। पद्यमिदं सर्वतोभद्रोदाहरणत्वेन पूर्व लिखितं व्याख्या तञ्च। आ इत्येनैव स्वरेण पद्यबन्धः ॥ ८७ ॥ अथ स्थाननियमे दर्शयितव्ये प्रथमं चतुःस्थानं दर्शयति नयनेति। हे नयनानन्दजनने अङ्गने ! सुन्दरि! अपने मेघरहिते अतएव नक्षत्रगणशालिनि तारानिकरभूषिते गगने सतत् एकवारं दृष्टि: दीयतां नयनानन्दजनने इति गगने इत्यस्यापि विशेषणं सङ्गच्छते। मानिनी सान्त्वयतो नायकस्य तादृशगगने दृष्टिपातोक्तः कामोद्दीपकत्वादनायासेनैव मानभङ्गः स्यादिति तत्पर्यम् । अत्र दन्त्यतालव्यकण्ठयमूर्धन्यैरेव वर्णैः पद्यबन्धः ॥ ८८॥ त्रिस्थानं दर्शयति अलीति। हे घनस्तनि । अलय इव नौला अलका लता यत्र तत्, नलिनच्छाये पद्मसदृशे नयने यत्र तादृशं तथा शशिनः कान्तिरिव कान्तिर्यस्य तथाभूतं ते तव आननं कं जनं न हन्ति नाकुलयति अपितु सर्वमेवेत्यर्थः । अत्र कण्ठयदन्यतालव्यैरेव वर्ग: पद्यबन्धः ॥ ८८ ॥ . हिस्थानमुदाहरति अनङ्गेति । हे सदानघ ! सदा अनघ ! अपाप ! व्यथारहितेत्यर्थः, तथा हे सदानन्दनताङ्ग ! सदा

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286