Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 247
________________ टतीयः परिच्छेदः। २४१ देवानां नन्दनो देवो नोदनो वेदनिन्दिनः । दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ६३ ॥ सूरिः सुरासुरासारिसारः सारससारसाः। ससार सरसी: सौरी ससूरुः स सुरारसी॥ ६४ ॥ यप्य तादृशः असम्बद्धभाषीत्यर्थः अतस्त्व न मे योग्य इति भावः । वाराङ्गनामभिलषन्तं कञ्चित् व्याधकुमारं प्रति तस्याः प्रत्याख्यानोक्तिरियम् । अत्र र क ग म इति चतुर्मिरेव वर्ग: पद्यबन्धः । वर्णपदेन च पद्यपूरकवर्णानां ग्रहणं, तेन अङ्गेति डकारयोगेऽपि न चातुर्वर्ण्यव्याघातः, तस्य पद्यपूरकत्वाभावात् ॥ ८२॥ त्रिवर्णमुदाहरति देवानामिति । देवानाम् इन्द्रादीनां नन्दनो दैत्यदमनात् प्रौतिजननः, तथा वेदनिन्दिनो वेदनिन्दकस्य नास्तिकजनस्य नोदनः निरासकः देवः नृसिंहरूपी भगवान्, दानवान् नन्दयति त्रिभुवनविजयेन सन्तोषयतीति तथोक्तस्य दानवनन्दिन: हिरण्यकशिपोः दाने वक्षोविदारणे दोय खण्डने इत्यस्मात् अनट्प्रत्ययः । नादेन सिंहनादेन दिवम् अन्तरीक्षं दुदाव तापितवान्। अत्र दवन इति विभिरेव वर्णैः पद्यबन्धः ॥ १३॥ द्विवर्णमुदाहरति सूरिरिति। सूरिः विहान् तथा सुरासुरासारिसारः सुरान् असुरांश्च आसरति आस्कन्दति इति तथोक्तः सारो बलं यस्य तादृशः, किञ्च ससूरुः शोभनौ जरू मूरू ताभ्यां सहित: वामोरुरित्यर्थः, पुनश्चं सुरारसौ सुरायां रसः आखादः अनुराग इत्यर्थः विद्यते अस्येति मुरारसी स प्रसिद्धः सौरौ सौरं लाङ्गलमस्यास्तीति तथोक्तः बलदेवः सारस २१

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286