Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 282
________________ २७६ काव्यादर्श असावनुपनौतोऽपि वेदानधिजगे गुरोः । खभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ १७८॥ विरोधः सकलोऽप्येष कदाचित् कविकौशलात् । उत्क्रम्य दोषगणनां गुणवीथीं विगाहते॥ १७ ॥ तस्य राज्ञः प्रभावेण तदद्यानानि जतिरे। आद्रांशकप्रबालानामास्पदं सुरशाखिनाम्॥१८॥ अक्षुमसर्वाचारसमन्विताः जातपुत्राः विप्राः अनाहिताग्नयः पकताम्नयाधानाः अपि वैखानरोम् इष्टि यागं वितन्वते कुर्वन्ति । अत्र च श्रुतौ कताम्नयाधानादेरेव वैश्वानरेध्यधिकारप्रतिपादनात् अनाहिताम्नीनां तहर्षनं श्रुतिविरुद्धम्॥१७७॥ __स्मृतिविरोधं दर्शयति असाविति। असौ जनः पनुपनौतः अक्कतोपनयनसंस्कारः अपि गुरोः सकाशात् वेदान् अधिजगे अधौतवान् । तथाहि खभावेन प्रकत्या एव शुद्धः निर्मलः स्फटिकः संस्कारं शुदिन अपेक्षते। अत्र अनुपनौतस्य वेदाध्ययनं स्मृतिविरुद्धम् उक्तञ्च मनुना नाभिव्याहारयेद् ब्रह्म खधानियमनादृते शूद्रेण हि समस्तावट यावद् वेदे न जायते इति ॥ १७८ ॥ उक्तदोषस्य कदाचिद् गुणत्वमप्याह विरोध इति। एषः उक्तरूपः सकल: समग्रः अपि विरोधः कवेः कौशलात् वर्णनाचातुर्येण कदाचित् दोषगणनाम् उत्क्रम्य विहाय गुणवोथीं गुणश्रेणी विगाहते गुणत्वेन गणनौयो भवतीत्यर्थः ॥ १७॥ तत्र देशविरोधस्य गुणत्वं दर्शयति तस्येति। तस्य राज्ञः

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286