Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
२२६
काव्यादथे
सकृद् दिस्त्रिश्चयोऽभ्यासः पादस्यैवं प्रदर्शितः । श्लोकहयन्तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥६७॥ विनायकेन भवता वृत्तोपचितबाहुना।
खमित्रोद्धारिणाऽभौता पृथ्वीयमतुलाश्रिता ॥८॥ रजोगुणविकारेण मानममानम्यते इति तत्सम्बोधनं लोभाद्यनायत्तौकत इत्यर्थः, किञ्च हे प्रमानामराजसेन ! मानः सम्मानः मा लक्ष्मीः ते मानमे न विद्यते मानमे यस्याः तादृशी राजसेना विपक्षराजचमूर्यस्य तत्सम्बुद्धौ। त्वं समाहितः कृतयुद्धोद्योग: सन् न राजसे न शोभसे, यतस्त्वं सवाहितः सन्ना अवसादं गता अहिताः शत्रवो यस्य तथोक्ताः, तथा सबा सत् पुरुषः साधुः इत्यर्थः ततश्च हितः सर्वेषां हिते रत इत्यर्थः अतस्तव युद्धयात्रा न युज्यत इति भावः। शैवं राजानं प्रति युद्धनिवर्त्तकवचनम् अत्र सर्व एव पादा अभ्यस्ताः ॥ ६६ ॥ __ सम्प्रति श्लोकाभ्यासं निर्दिशति सक्कदिति। एवम् उक्तप्रकारेण पादस्य सक्त् हिः त्रिश्च यः अभ्यासः पुनरावृत्तिः सः प्रदर्शितः उदाहृतः । तत्र सक्कदभ्यासः पादहयगतः, हिरभ्यासः पादत्रयगतः, निरभ्यास: पादचतुष्टयगत इति। युक्तः अर्थो यस्थ एकवाक्यतापनमित्यर्थः श्लोकहयं समानानुपूर्वपदवर्णघटितं पद्यहितयं श्लोकाभ्यासः स्मृतः कथितः। यथेति वक्ष्यमाणोदाहरणार्थम् ॥ ६७ ॥
विनायकेनेति । हे राजन् ! विनायकेन दुर्जनानां शाखा, वृत्तौ वर्तुलौ उपचितौ पौनौ बाइ यस्य तथोक्तेन स्वमिवाणां शोभनानाम् अमित्राणां शवणाम् उहारिणा विनाशकेन तथा अतुलाश्रिता अतुलाम् अतुल्यतां केनापौति भावः पात्रयतीति

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286