Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 246
________________ २४० - काव्यादर्श रे रे रोरुहरूरोरुगागोगोऽगाङ्गगोऽगगुः । किं केकाकाकुकः काको मामा मामम मामम! ६२ अभिलषतौति अगखगकाकः तत्सम्बद्धौ, इन्द्रियसुखेषु अनासक्त इत्यर्थः त्वम् अघककाकहा अघकानि पापानि एव काकाः तान् हन्तीति तथोक्तः अपापः सन् गां पृथिवीम् अगाः गतवानसि प्रदक्षिणौचकर्थेत्यर्थः। अत्र कण्ठा रेव वर्णैः पद्यरचना। कस्यचिद्देशपर्यटकस्य स्तुतिरियम् ॥ ८१ ॥ ___ अथ वर्णनियमे दर्शयितव्ये प्रथमं चतुर्वर्णमुदाहरति रे इति। रेरे इति नौचसम्बोधनसूचकमव्ययम् । रे रे मामम ! मायां लक्ष्मयां ममत्यव्ययं ममता इत्यर्थः यस्य सः तत्सम्बुद्धी, कृपण इत्यर्थः, त्वं मां मा मा इति निषेधवाचकं सम्भ्रमाद्यतिरेके विरुक्तिरिति, अम गच्छ, मत्समीपं मा गच्छे त्यर्थः । यतः काकः किं केकाकाकुकः भवति अपि तु नैवेत्यर्थः, केका मयूरध्वनिः तस्याः काकु: मदजनितविकारः तं कायति शब्दायते शब्दन प्रकाशयतीत्यर्थः, कै शब्द इत्यस्मात् डप्रत्ययः । न हि काको मयूरवृत्तिं लभते इति भावः, किञ्च रोरूहरूरोरूरुगागोगः रोरूयते पुनः पुनरतिशयेन वा रौतौति रोरूः रौतेयं लुगन्तात् क्विम् । स च असौ रुरुमगविशेषश्चेति रोरूरुरुः तस्य उरसः वक्षसः या रुक् शरवेधजनिता व्यथा सा एव आग: अपराधः पापमित्यर्थः तद् गच्छति प्राप्नोतीति तथाभूतः निरौहजीवहिंसकत्वात् पापौयांस्त्वं न मे योग्य इति भावः। पुनश्च त्वम् अगाङ्गगः अगस्य पर्वतस्य अङ्गम् एकदेशं गच्छति अधिवसतीत्यर्थः तथोक्तः पार्वत्य इत्यर्थः, तथा अगगुः न गच्छति न सङ्गच्छते इति अगा असम्बदा इत्यर्थः गौ वाण

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286