Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 267
________________ तृतीयः परिच्छेदः । ईदृशं संशयायैव यदि वातु प्रयुज्यते । स्यादलङ्कार एवासौ न दोषस्तव तद् यथा ॥ १४१ ॥ पश्याम्यनङ्गजातङ्कलङ्कितां तामनिन्दिताम् । कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ १४२ ॥ २६१ रसलोलेक्षणे ! मनोरथप्रियः वाञ्छित प्रेमिकः तस्य आलोकः दर्शनं तस्मिन् यः रसः आवेशः तेन लोले चञ्चले ईक्षणे यस्याः तत्सम्बुडौ, जारदर्शनव्यापृतनयने ! सखि ! असौ तव माता चारादु वृत्तिः दूरवर्त्तिनीत्यर्थः अतः ईदृशं तव व्यवहारं द्रष्टुं न क्षमा, अथवा आरावृत्तिः समीपवर्त्तिनौ अतस्तव ईदृशं दुर्व्यवहारमित्यर्थः द्रष्टुं न क्षमा, आराद दूरसमोपयोरित्यमरः । अत्र प्रथमार्थे त्वं यथेच्छ विहरेति द्वितीयार्थे इदामोम् ईदृशं कर्म मा कुरु इत्येतयोरर्थयोः संशयः । जारं प्रत्यनुरागिणीं नायिकां प्रति तन्मातुस्तदाचरणपरिज्ञानशङ्कया सख्या उक्तिः ॥ १४० ॥ अस्य कदाचित् गुणमाह ईदृशमिति । यदि वातु यद्यपि ईदृशं ससंशयं वाक्यं संशयाय संशयप्रतिपादनाय एव प्रयुज्यते व्यवक्रियते, तदा असौ संशयः अलङ्कार एव स्यात्, तत्र न दोष:, तथाच यत्र संशय एव विवक्षितः तत्र असौ गुण एव अविवचितस्तु दोष एवेति भावः । तत् तस्य उदाहरणं यथेति वक्ष्यमाणसूचनार्थम् । वातु इत्यत्र जातु इत्यपि पाठी दृश्यते ॥ १४१ ॥ पश्यामीति । अनिन्दितां तां तव कान्तामित्यर्थः अनङ्गजेन आतङ्केन कामपीड़या इत्यर्थः लङ्घिताम् आक्रान्ताम् अत एव कठोरेण निर्दयेन कालेन मृत्युना ग्रस्तां पश्यामि त्वदा

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286