Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
२००
काव्याद”
देशोऽद्रिवनराष्ट्रादिः कालोराविन्दिवर्तवः । नृत्यगीतप्रभृतयः कला कामार्थसंश्रयाः ॥ १६२ ॥ चराचराणां भूतानां प्रवृत्तिलॊकसंज्ञिता। हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥१६३ तेषु तेष्वयथा रूढ़ यदि किञ्चित् प्रवर्तते।। कवेः प्रामादाई शादिविरोधीत्येतदुच्यते ॥ १६४ ॥ कर्पूरपादपामर्शसुरभिर्मलयानिलः । .
पथ देशादौन् निरूप्य तहिरोधं निर्दिशति देश इति । अद्रिः पर्वतः वनं राष्ट्र राज्यम् इत्येवमादिर्देशः, रानिर्दिवा ऋतवच काल: बहुवचनात् मासवत्सरादौनां ग्रहणम्। कामार्थसंश्रयाः कामच अर्थश्च तौ संश्रयौ येषां तथोक्ताः कामसाधकाः अर्थसाधकाच नृत्यमौतप्रभृतयः प्रभृतिशब्देन वादिनादि परिग्रहः चतुःषष्टिप्रकाराः तन्त्रोक्ताः कलाः ॥ १६२॥ ।
चराचराणां जङ्गमस्थावराणां भूतानां प्रवृत्तिः वार्ता लोकसंचिता लोक इति संज्ञा जाता अस्या इति अस्य जातार्थे इतप्रत्ययः। लोकशब्दप्रतिपाद्या, न्यायः हेतुविद्यात्मकः हेतुः कारणं तवटिता या विद्या युक्तिमूलकशास्त्रमित्यर्थः तदात्मकः तन्मय इत्यर्थः तथा सस्मृतिः स्मृतिः वेदार्थस्मरणजन्यम् ऋषिवाक्यं तत्सहिता मन्वादिसंहितासहिता इत्यर्धः श्रुतिर्वेदः प्रागमः आगमशब्दवाच्य इत्यर्थः ॥ १६३ ॥ _ तेषु तेषु उक्तेषु देशादिषु अयथारूढ़म् अप्रसिद्ध किञ्चित् यदि कवेः प्रमादात् अनवधानात् प्रवर्तते उपन्यस्यते तदा एतत् देशादिविरोधि तदाख्यदोषवदित्यर्थः इति उच्यते ॥१६४

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286