Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
२५६
काव्यादर्श समुदायार्थशून्यं यत्तदपार्थमितीष्यते । उन्मत्तमत्तबालानामुक्तरन्यव दुष्यति ॥ १२८ ॥ मौनी ब्रह्मचारी पिता मम। माता च मम बभ्यासौदपुत्रम पितामह इति। आमहादयस्तु तथा मेच्छन्ति। यथा प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टञ्च नेष्यत इति । तदेतं संशयमाशझ्याह प्रतिज्ञेति । प्रतिज्ञा साध्यनिर्देशः, हेतुस्तत्साधनं दृष्टान्तः प्रसिद्धोदाहरणविन्यासः, तेषां हानिः विरोधः प्रभावश्च दोषः काव्यस्य हेयत्वप्रतिपादको न वा इति संशये असौ प्रश्नविषयो विचारः निश्चयः एकपक्षावधारणं प्रायः कर्कश: नैयायिकत्वात् कठिनः वा नौरस इत्यर्थः, तस्मात् तेन विचारेण आलौढ़ेन पाखादितेन ज्ञातेन इत्यर्थः किं फलं न किमपि फलमस्ति इत्यर्थः। तथाहि काव्यस्य वैरस्यजनकधर्म एव दोषपदार्थः, स च खत एव प्रतीयते नात्र विचारप्रयासेन फलं केवलम् अत्यन्तपरिहा एव कतिपये दय॑न्ते प्रतिज्ञाहान्यादीनाञ्च नात्यन्तपरिहार्यता दृश्यते अप्रतिज्ञातानाम् अपि प्रसङ्गसङ्गत्या कविभिर्वर्णितत्वात्, हेतुभावश्च प्रसिद्धवर्णने न वैरस्यमाहरति, दृष्टान्तश्च अलङ्कारस्वरूप एव तदभावेन न काव्यत्वं व्याहन्यते अनलङ्काराणाम् अपि काव्यत्वस्य सर्वैरेवाङ्गोकतत्वात् इति ध्येयम् ॥ १२७॥ .. तत्र अपार्थं निरूपयति समुदायेति । समुदायस्य वाक्यघटकपदसमूहस्य यः अर्थः शाब्दबोधेन एकतामापन्नः प्रतिपाद्यः तेन शून्यं यत् काव्यं तत् अपार्थम् इति इष्यते, तच्च उन्मत्तानां वातुलानां मत्तानां सुरापानेन विकतानां तथा बालानां शिशूनाम् उक्तेः वचनात् अन्यत्र दुष्यति, उन्मत्तादिवचने तु न दोष इत्यर्थः ॥ १२८ ॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286