Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 856
________________ १६ सर्गः] हीरसौभाग्यम् । ७९९ वद्भिः उद्भटै रवैर्निर्घोषैः शब्दैः उद्धतध्वनिभिः । पुनः कैः । अखण्डं विच्छेदविरहितं कृतैः प्रारब्धैः विरचितैस्ताण्डवैर्नाटकैः । पुनः कैः । प्रमुदिता अनर्गलदानप्राप्त्या प्रमोदकलिता जाता अथवा विदुराः प्राज्ञा ये बन्दिनो मङ्गलपाठका मागधास्तेषां वृन्दानि संदोहास्तेषां स्ववाः स्तुतयस्तैः । अमूनि सर्वाण्यपि विशेषणानि जनविशेषणीक्रियन्ते वा बहुव्रीहिणा च योज्यन्ते । क इव । जिनावनीवासव इव महोक्षलक्ष्मेव वा । यथा जिनराजः अथ वा वृषभध्वजो युगादिदेवः सुरा देवा असुरा दानवा नरा मनुष्याः तेषामुत्करैर्गणैः सार्धं शत्रुंजयं प्रति प्रतिष्ठते । त्रयोविंशतिरपि तीर्थकराः शत्रुंजये समवसृताः, तेषु ऋषभदेवो नवनवतिपूर्ववारान्समागतः । यदुक्तम् — 'नवनवतिपूर्ववा - रान् यस्मिन् समवसद्युगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वाचार्यस्वे । तथा श्रीमनेमिनाथोऽपि शक्रस्तुतिमसहमानैः सुरैः परिक्षिप्तास्तदवस रांगत पुरंदर प्रार्थनाप्रक्रमे गृहमेधित्वे यावदेवेन्द्रो देवेन्द्रैः समं शत्रुंजये समाजगाम- इति शत्रुंजयमाहात्म्ये ॥ तंदा मुदितमानसा निखिलयात्रिकाणां गणा उपेत्य तलहट्टिकां शिवपुरस्य सीमामिव । प्रसूनमणिमौक्तिकैर्धरमवर्धयन्बिन्दुभि स्तटावनिधरं पयोनिधिविवृद्धवेला इव ॥ २४ ॥ तदा हीरसूरेर्यात्राकृते श्रीशत्रुंजय शैलं प्रति प्रस्थानसमये निखिलाः समस्ता यात्रिकाणां विमलाचलरोहणार्थमागतानां भविकानां गणाः समूहा धरमर्थात्पुण्डरीकपर्वतं प्रसूनानि पुष्पाणि वर्णरूप्यमयानि स्थलजलजातानि कुसुमानि, मणयो रत्नानि, मौ• चिकानि मुक्ताफलानि, तैः कृत्वा सममेककालं सर्वेऽप्यवर्धयन् वर्धापयन्ति स्म । किं कृत्वा । तलहष्ट्टिकामर्थाद्विमला चलोपान्त पृथिवीमुपत्यकामधोभागे उपेत्यागत्य । उत्प्रेक्ष्यते-- शिवपुरस्य मुक्तिनगरस्य सीमामुपशल्यमिव परिसरभूमीमिव । किंभूता गणाः । मुदितं यात्राचिकीर्षया शत्रुंजयाभ्यर्णागमनेन हृष्टं मानसं मनो येषां ते । भवर्धयन्कथम् । सममेकस्मिन्नेव समये यात्रिका घरं विमलाद्विमवर्धयन् । का इव । वेला इव । यथा पयोनिधेः समुद्रस्य विवृद्धा चन्द्रोदयदर्शनाद्वीष्मर्तुप्रादुर्भावाद्वा वृद्धि प्राप्ता वेलास्तटावनीधरं वेलातीरगिरिं बिन्दुभिर्जलकणैरवाकिरन्ति ॥ निपीय नगपुंगवं विकचनेत्रपत्रैर्भव स्थितैर्भविककुञ्जरैरपि तनूलतालम्बिभिः । व्यपेतभवविग्रहैरिव समग्रलोकाप्रगै रलम्भि भुवि निर्वृतिर्यदिह तत्र चित्रं महत्॥ २५ ॥ इह तलहट्टिकायामुपत्यकायां वा विकचैगिरिगवेषणोद्धुषितहर्षप्रकर्षाद्विस्मेरैनेंत्र पत्रै -

Loading...

Page Navigation
1 ... 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980