Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh

View full book text
Previous | Next

Page 979
________________ ९१८ काव्यमाला । यो गौतमनामानं सभासमक्षं जिगाय वादीन्द्रम् | श्रीदेवसूरिरविरिव कुमुदादिमचन्द्रदिग्वसनम् ॥ १३ ॥ नारायणदुर्गाद्या भूमीन्द्रा येन रञ्जिताः खर्गे । राजसिंहदेवमुख्या हेमादिमचन्द्रगुरुणेव ॥ १४ ॥ यश्चन्द्रभाणसंज्ञं कायस्थं मण्डलीकमिव भूमौ । निजभक्तं शिष्यमिव प्रणीतवान्वचनचातुर्यात् ॥ ११ ॥ मिथ्यात्व मनसो निरस्य विलसद्वाचां विलासैर्निजै स्तस्मिन्स्थापयति स्म धर्ममनघं स्थानादिसिंहस्य यः । दाघं घोरनिदाघघर्मघटितं प्रावृट् पयोद जो दृष्टीनां पटलैरिवामृतरसं भूमण्डलस्यान्तरा ॥ १६ ॥ जिनवृषभसमवसरणप्रकरं यः कारयांचकार जनैः । सूर्याभदेव इव निजयज्ञाभ्यवहारनिवहेन ॥ १७ ॥^ योsa भागवतीया भविकप्रकरेण कारयांचक्रे । आर्यसुहस्तिव्रतिपतिरिव संप्रति वसुमतीविधुना ॥ १८ ॥ तच्चरणकमलमानससद्मोपमविबुधदेव विमलेन । निरमायि काव्यमेतत्प्रमोदतो हीरसौभाग्यम् ॥ १९ ॥ तस्य स एव व्यदधात्सुखावबोधाभिधां पुनर्वृत्तिम् । श्रीहेमचन्द्रगुरुरिव निजनिर्मितनाममालायाः ॥ २० ॥ कल्याणविजयवाचकवासवशिष्येण काव्यमिदमखिलम् । समशोध्यत धनविजयाभिधवाचकवसुमतीपतिना ॥ २१ ॥ यत्किचिदप्यवद्यं भवेदिहानुग्रहं प्रणीय मयि । संशोध्यं तद्विबुधैः साधिममुखगुणमणीनिधिभिः ॥ २२ ॥ इति ग्रन्थप्रशस्तिः । ॥ शुभं भूयात् ॥ ·

Loading...

Page Navigation
1 ... 977 978 979 980