Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
९१९
काव्यमाला। प्रचेताः', तथा 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः', तथा 'पशुप्रमथभूतोमापतिः', एतानि चत्वार्यप्युक्तपदानि हैम्याम् । एते सर्वेऽपि दिनीशा दिक्पाला वर्तन्ते । तथा बावद्रलगर्भा भूरास्ते । किं कुर्वती । पाथोघीनां सर्वसमुद्राणां तथा यावद्वसुधावलयव. तिना पृथ्वीधराणां मेरुप्रमुखपर्वतानां च गुरुमतिशायिनी गुरुतां गरिमाणं भारभरं विभवी धारयन्ती । तथा यावद्विश्वभर्तुत्रैलोक्यनायकस्य तीर्थकरस्य भारती सिद्धान्त. रूपा वाणी त्रिभुवनभवनान् खर्गपातालभूमिपु गृहाणि येषां तादृशाना किनागनागराजन्तून् प्राणिनः पुनाति पवित्रयति तारयति ॥ स्थेमानं गाहमानो बलमथनपथे यावदौत्तानपादि
विकल्लोलमालाविलिखितदिविषत्पद्धतिः सिन्धुकान्तः। . यावत्सिद्धसवन्तीतपनतनुरुहाभारतीसंगमश्च
श्रीमत्यार्थप्रसादाजगति विजयतां हीरसौभाग्यकाव्यम् ॥ २१३ ॥ यावत्समयं बलमयनपथे गगनाङ्गणे उत्तानपादस्य राज्ञोऽपत्यमौत्तानपादिः ध्रुवः स्थे. मानमतिशयेन स्थिरतो गाहते अवलम्बते । च पुनर्यावत् कल्लोलमालागिस्तराराजीभिः विलिखिता स्पृष्टा व्याप्ता दिविषदां देवानां पद्धतिर्मार्गो व्योम येन तादृशः सिन्धुकान्तः । तथा च पुनर्यावसिद्धनवन्ती गङ्गा, तथा तपनतनुरुहा सूर्यपुत्री यमुना, तथा भारती सरखती, तासां तिसृणां संगमो वर्तते । तावन्तं समयं श्रीमतस्त्रलोक्यलक्ष्मीकलितस्य पार्श्वस्य श्रीपार्श्वनाथस्यात् श्रीमच्चिन्तामणिपार्श्वनाथस्य प्रसादाजगति महीमण्डले इदं हीरसौभाग्यं काव्यं विजयतां सर्वोत्कृष्टत्वेन प्रवर्तताम् ॥ इति ग्रन्थावसाने श्रीमत्पार्थ इति मालमिधानम् ॥
यं प्रास्त शिवाहसाधुमघवा सौभाग्यदेवी पुनः
श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तद्राझीक्रमसेविदेवविमलव्यावर्णिते संमदा
सर्गः सप्तदशो बभूव चरिते श्रीहीरसूरिप्रभोः ॥ २१४ ॥ अत्र हीरसौभाग्यनामकाव्ये संमदादानन्दाद्देवविमलेन व्यावर्णिते श्रीहीरसूरिप्रभोः श्रीहीरविजयसूरीश्वरस्य चरिते गुणोत्कीर्तनरूपे चरित्रे सप्तदशः सर्गो बभूव संजातः ॥
इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यकाव्यवृत्तौ श्रीश@जयोत्तरणप्रस्थानशत्रुजयासिन्धूत्तरणाजयपार्श्वनाथयात्राकरण. वदागमागतमहिमवर्णनद्वीपसंघसंमुखागमनोन्नतनगरपवित्रीकरणसंलेखनाराधनाविराधनाविधाननशनपूर्वकखर्लोकगमनविजयसेनसूरिगणैश्वर्यकधनविजयदेवसूरिपुरंदरसंप्रति. राज्यप्रवर्तनो नाम सप्तदशः सर्गः ॥
Loading... Page Navigation 1 ... 975 976 977 978 979 980